________________
श्रीमलयगिरीया
नन्दीवृत्तिः
॥१०६॥
प्रादुर्भवन्ति गुणतो बलानि वा मानसादीनि ॥ २ ॥” अत्र स इति अप्रमत्तयतिः 'मानसपर्याय' मिति मानसाःमनःसम्बन्धिनः पर्याया विषयो यस्य तन्मानसपर्यायं, मनः पर्यायज्ञानमित्यर्थः, 'कोष्ठादिबुद्धिर्वे 'ति अत्रादिशब्दात्पदानुसारिवीजबुद्धिपरिग्रहः, तिस्रो हि बुद्धयः परमातिशयरूपाः प्रवचने प्रतिपाद्यन्ते, तद्यथा - कोष्ठबुद्धिः पदानुसारिणीबुद्धिः बीजबुद्धिश्च तत्र कोष्ठ इव धान्यं या बुद्धिराचार्यमुखाद्विनिर्गतौ तदवस्थावेव सूत्रार्थों धारयति, न किमपि तयोः सूत्रार्थयोः कालान्तरेऽपि गलति सा कोष्ठबुद्धिः, या पुनरेकमपि सूत्रपदमवधार्य शेषमश्रुतमपि तदवस्थमेव श्रुतमवगाहते सा पदानुसारिणी, या पुनरेकमर्थपदं तथाविधमनुसृत्य शेषमश्रुतमपि यथावस्थितं प्रभूतमर्थमवगाहते सा बीजबुद्धिः, सा च सर्वोत्तमा प्रकर्षप्राप्ता भगवतां गणभृतां, ते हि उत्पादादिपदत्रयमवधार्य सकलमपि द्वादशाज्ञात्मकं प्रवचनमभिसूत्रयन्ति, तथा चारणाश्च वैक्रियं च सर्वोषधश्च चारणवैक्रिय सर्वोषधाः तद्भावः चारणवैक्रियसर्वौषधता, तत्र चरणं - गमनं तद्विद्यते येषां ते चारणा 'ज्योत्स्त्रादिभ्योऽणू' इति मत्वर्थीयोऽण्प्रत्ययः, तत्र गमन| मन्येषामपि मुनीनां विद्यते ततो विशेषणान्यथानुपपत्त्या चरणमिह विशिष्टं गमनमभिगृह्यते, अत एवातिशायने मत्वर्थीयो, यथा रूपवती कन्येत्यत्र, ततोऽयमर्थः - अतिशयचरणसमर्थाश्चारणाः, तथा चाह भाष्यकृत् स्वभाष्यटीकायां - अतिशय चरणाच्चारणाः, अतिशयगमनादित्यर्थः, ते च द्विधा - जङ्घाचारणा विद्याचारणाथ, तत्र ये चारित्रतपोविशेषप्रभावतः समुद्भूतगमनविषयलब्धिविशेषास्ते जङ्घाचारणाः, ये पुनर्विद्यात्रशतः
Jain Education International
For Personal & Private Use Only
आमषध्यादि
१५
२०
॥१०६॥
२५
www.jainelibrary.org