SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ है ते सम्यमिथ्यादृष्टयः, उक्तं च शतकबृहचूण्णौ'जहाँ नालिकेरदीवयासिस्स खुहाइयस्सवि एत्थ समागयस्स ओ-12 आमाँ यणाइए अणेगविहे ढोइए तस्स उवरिं न रुई न य निंदा, जओ तेण सो ओयणाइओ आहारो न कयाइ दिट्ठो नावि|8पध्यादि सुओ, एवं सम्ममिच्छद्दिहिस्सवि जीवाइपयत्थाणं उवरिं न य रुई नावि निंद'त्ति, तथा 'संजय'त्ति 'यम उपरमे । द संयच्छन्ति स्म सर्वसावधयोगेभ्यस्सम्यगुपरमन्ते स्मेति संयताः, “गत्यर्थकर्मण्याधारे"ति कर्तरि क्तप्रत्ययः, संयताः सकलचारित्रिणः असंयताः-अविरतसम्यग्दृष्टयः संयतासंयताः-देशविरतिमन्तः, तथा 'पमत्त'त्ति प्रमाद्यन्ति स्म मो-18 हनीयादिकम्मदियप्रभावतः सज्वलनकषायनिद्राद्यन्यतमप्रमादयोगतः संयमयोगेषु सीदन्ति स्मेति प्रमत्ताः, पूर्ववत् कत्तेरि क्तप्रत्ययः, ते च प्रायो गच्छवासिनः तेषां कचिदनुपयोगसम्भवात् , तद्विपरीता अप्रमत्ताः, ते च प्रायो |जिनकल्पिकपरिहारविशुद्धिकयथालन्दकल्पिकप्रतिमाप्रतिपन्नाः, तेषां सततोपयोगसम्भवाद, इह तु ये गच्छवासिनः तन्निगेता वा प्रमादरहिताः तेऽप्रमत्ता द्रष्टव्याः. तथा 'इड्पित्तस्से'त्यादि, ऋद्धी:-आमर्पोषध्यादिलक्षणाः प्राप्ता ऋद्धिप्राप्ताः तदिपरीता अनृद्धिप्राप्ताः, ऋद्धीश्च प्राप्नुवन्ति विशिष्टमुत्तरोत्तरमपूर्वापूर्वार्थप्रतिपादकं श्रुतमवगाहमानाः श्रुतसामथ्यतस्तीनां तीव्रतरां शुभभावनामधिरोहन्तोऽप्रमत्तयतयः, तथा चोक्तम्-'अवगाहते च स श्रुतजलधिं प्राप्नोति चावधिज्ञानम् । मानसपर्यायं वा ज्ञान कोष्ठादिबुद्धिर्वा ॥१॥ चारणवैक्रियसौंषधताद्या वा लब्धयस्तस्य । १ यथा नालिकेरद्वीपवासिनः क्षुधादितस्यापीहागतस्यौदनादिकेऽनेकविधे ढोकिते तस्योपरि न रुचिः नापि निन्दा, यतस्तेन स ओदनादिक आहारो न कदाचित् * दृष्टो नापि श्रुतः, एवं सम्यग्मिध्यादृष्टेरपि जीवादिपदार्थानामुपरि न च रुचिर्नापि निन्देति । SSSSS dan Edd e mnational For Personal & Private Use Only ww.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy