SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ नैरयिकाश्च देवाश्च तीर्थकराश्च नैरयिकदेवतीर्थङ्कराः, तीर्थकरा इत्यत्र 'तीर्थाचै' इति वचनात् खप्रत्यये तीर्थशब्दान्मन्, चशब्दोऽवधारणे, तस्य च व्यवहितः प्रयोगस्तं च दर्शयिष्यामः, नैरयिकदेवतीर्थङ्करा 'अवधेः' अवविज्ञानस्यावाया एवं भवन्ति, बाह्या न कदाचनापि भवन्तीति भावः, सर्वतोऽवभासकावध्युपलब्धक्षेत्रमध्यवर्त्तिनः सदैव भवन्तीत्यर्थः । तथा पश्यन्ति 'सर्वतः सर्वासु दिक्षु विदिक्षु च खलुशब्दोऽवधारणार्थः, सर्वाखेव दिविदि - क्ष्विति, आह- अवधेरवाद्या भवन्तीत्यस्मादेव सर्वत इत्यस्यार्थस्य लब्धत्वात् सर्वतः शब्दग्रहणमतिरिच्यते, उच्यते, अभ्यन्तरत्वाभिधानेऽपि सर्वतोदर्शनाप्रतीतेः, न खलु सर्वाभ्यन्तरावधिः सर्वतः पश्यति, कस्यचिद्दिगन्तरालादर्शनातू, विचित्रत्वादवधेः, ततः सर्वतोदर्शनख्यापनार्थं 'पासंति सबओ खलु' इत्युक्तम्, आह च भाष्यकृत् - "अंडिंभतरति भणिए भन्नइ पासंति सबओ कीस ? । ओदइ जमसंततदिसो अंतोवि ठिओ न सवत्तो ॥ १ ॥" 'शेषाः' तिर्यङ्नरा देशेन - एकदेशेन पश्यन्ति, 'सर्व वाक्यं सावधारणमिष्टितश्चावधारणविधिः' तत एवमवधारणीयं- शेषा एव देशतः पश्यन्ति, न तु शेषा देशत एवेति, अथवा अन्यथा व्याख्यायते तदेवमवधिज्ञानमभिधाय साम्प्रतं ये निय तावधयो ये चानियतावधयस्तान् प्रतिपादयति — नैरयिकदेवतीर्थकरा एवावर वाह्या भवन्ति, किमुक्तं भवति ? - नियतावधयो भवन्ति, नियमेनै पामवधिर्भवतीत्यर्थः एवं चाभिहिते सति संशयः - किं ते देशेन पश्यन्ति उत सर्वतः १, १ भण्यते अभ्यन्तरा इति भणिते पश्यन्ति सर्वतः (इति) कुतः । उच्यते यत् अन्तरपि स्थितः असंततदिको न सर्वतः पश्यति ॥ १ ॥ Jain Education national For Personal & Private Use Only बाह्याबाह्यावधयः १० १२ •www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy