SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ SACOCOLLECCASE स प्रथममुत्पद्यमानो ज्ञानरूप एवोत्पद्यते न दर्शनरूपः, ततः क्रमेणोपयोगप्रवृत्तेर्ज्ञानोपयोगानन्तरं दर्शनरूपोऽपीति व्या दिविषयः पश्चाहर्शनम् , अथवा इहाध्ययने सम्यग्ज्ञानं प्ररूपयितुमुपक्रान्तं, यतोऽनुयोगप्रारम्भेऽवश्यं मङ्ग- म.१६ लाय ज्ञानपञ्चकरूपो भावनन्दिर्वक्तव्य इति तत्प्ररूपणार्थमिदमध्ययनमारब्धं, ततः सम्यग्ज्ञानमिह प्रधानं न मि-13 थ्याज्ञानं, तस्य मांगल्यहेतुत्वायोगाद्, दर्शनं त्ववधिज्ञानविभङ्गसाधारणमिति तदप्रधान, प्रधानानुयायी च लौकिको है लोकोत्तरश्च मार्गः, ततः प्रधानत्वात् प्रथमं ज्ञानमुक्तं पश्चाद्दर्शनमिति । तथा क्षेत्रतोऽवधिज्ञानी जघन्येनाङ्गुलास-18 ख्येयभागमुत्कर्षतोऽसङ्कयेयानि अलोके लोकप्रमाणानि चतुर्दशरज्वात्मकानि खण्डानि जानाति पश्यति । काल तोऽवधिज्ञानी जघन्येनावलिकाया असङ्ख्येयभागमुत्कर्षतोऽसङ्ख्येया उत्सर्पिण्यवसर्पिणीः-असङ्ख्येयावसर्पिण्यु६ सर्पिणीप्रमाणमतीतमनागतं च कालं जानाति पश्यति । भावतोऽवधिज्ञानी जघन्येनानन्तान् भावान्-पर्यायान् आधारद्रव्यानन्तत्वात् , नतु प्रति द्रव्यं, प्रतिद्रव्यं सङ्ख्येयानामसङ्ख्येयानां वा पर्यायाणां दर्शनात्, उक्तं च-'एगं दवं पेच्छं खंधमणुं वा स पजवे तस्स । उक्कोसमसंखेजे संखिजे पेच्छए कोई ॥१॥' उत्कर्षतोऽप्यनन्तान् भावान् जानाति पश्यति, केवलं जघन्यपदादुत्कृष्टपदमनन्तगुणम् , आह च चूर्णिकृत्-'जहन्नपयाओ उक्कोसपयमणंतगुणमिति' 'सव्वभावाणमणंतभागं जाणइ पासइ'त्ति तानपि चोत्कृष्टपदवर्त्तिनो भावान् ‘सर्वभावानां' सर्वपर्यायाणाम M १ एकं द्रव्यं पश्यन् स्कन्धमणुं वा स पर्यवान् तस्य । उस्कृष्टतोऽसंख्येयान् संख्येयान् पश्यति कोऽपि ॥ १॥ २ जघन्यपदादुत्कृष्टपदमनन्तगुणं For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy