________________
श्रीमलयगिरीया नन्दीवृत्तिः
॥ ९७ ॥
Jain Education
कोसेणं असंखिजाई अलोगे लोगप्पमाणमित्ताइं खंडाई जाणइ पासइ, कालओ णं ओहि - नाणी जहन्ने आवलिआए असंखिज्जइभागं जाणइ पासइ उक्कोसेणं असंखिजाओ उस्सप्पि - ओ अवसप्पिणीओ अईयमणागयं च कालं जाणइ पासइ, भावओ णं ओहिनाणी जहनेणं अते भावे जाणइ पासइ उक्कोसेणवि अणंते भावे जाणइ पासइ, सव्वभावाणमणंतभागं जाणइ पासइ ॥ ( सू. १६)
तदवधिज्ञानं 'समासतः' संक्षेपेण 'चतुर्व्विधं' चतुष्प्रकारं प्रज्ञप्तम्, तद्यथा - द्रव्यतः क्षेत्रतः कालतो भावतश्चेति, तत्र द्रव्यतो 'ण' मिति वाक्यालङ्कारे अवधिज्ञानी जघन्येनापि - भावप्रधानोऽयं निर्देशः सर्वजघन्यतयाऽपि अनन्तानि रूपिद्रव्याणि जानाति पश्यति, तानि च तैजसभाषाप्रायोग्यवर्गणापान्तरालवत्तनि द्रव्याणि, उत्कर्षतः पुनः सर्वाणि रूपिद्रव्याणि बादरसूक्ष्माणि जानाति पश्यति, तत्र ज्ञानं विशेषग्रहणात्मकं दर्शनं सामान्यपरिच्छेदात्मकं, आह च चूपिणकृत्-जाणंइत्ति णाणं, तत्थ जं बिसेसग्गहणं तन्नाणं, सागारमित्यर्थः, पासइति दंसणं, जं सामनग्गहणं तं दंसणमणागारमित्यर्थः, आह- आदौ दर्शनं ततो ज्ञानमिति च क्रमः, तत एनं क्रमं परित्यज्य किमर्थं प्रथमं जानातीत्युक्तम् ?, उच्यते, इह सर्वा लब्धयः साकारोपयोगोपयुक्तस्योत्पद्यन्ते, अवधिरपि लब्धिरुपवर्ण्यते, ततः १ जानातीति ज्ञानं तत्र यद्विशेषग्रहणं तज्ज्ञानं साकार मित्यर्थः पश्यतीति दर्शनं यत् सामान्यग्रहणं तद्दर्शनं अनाकारमित्यर्थः ।
For Personal & Private Use Only
अवधेर्द्रव्यादिविषयः
सू. १६
१५
२०
॥ ९७ ॥
२४
Cinelibrary.org