SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Jain B 1 कस्यचित्तिरश्वोऽवधिरसङ्ख्येयकालविषयो जायते तदानीं तस्य स्वयम्भूरमणस्य द्वीपस्य समुद्रस्य वा एकदेशो विषयः, स्वयम्भूरमणविषय मनुष्यबाह्यावधेर्वा तदेकदेशो विषयः, क्षेत्रपरिमाणं पुनर्योजनापेक्षया सर्वत्रापि जम्बूद्वीपादारभ्यासङ्ख्येयद्वीपसमुद्रपरिमाणमवसेयम् । तदेवं यथा क्षेत्रवृद्धौ कालवृद्धिः कालवृद्धौ च यथा क्षेत्रवृद्धिः तथा प्र तिपादितं सम्प्रति द्रव्यक्षेत्रकालभावानां मध्ये यद्वृद्धौ यस्य वृद्धिरुपजायते यस्य च न तदभिधित्सुराह - 'काले' अवधिगोचरे वर्द्धमाने 'चतुणी' द्रव्यक्षेत्रकालभावानां वृद्धिर्भवति, तथा क्षेत्रस्य वृद्धिः क्षेत्रवृद्धिस्तस्यां सत्यां कालो 'भजनीयो' विकल्पनीयः कदाचिद्वर्द्धते कदाचित् न, क्षेत्रं ह्यत्यन्तसूक्ष्मं, कालस्तु तदपेक्षया परिस्थूरः, ततो यदि प्रभूता क्षेत्रवृद्धिस्ततो वर्द्धते शेषकालं नेति, द्रव्यपर्यायौ तु नियमतो वर्द्धते, आह च भाष्यकृत - "कांले पवमाणे स दव्यादओ पवति । खेत्ते कालो भइओ व ंति उ दवपज्जाया ॥ १ ॥” तथा द्रव्यं च पर्यायश्च द्रव्यपर्यायौ तयोवृद्धौ सत्यां, सूत्रे विभक्तिलोपः प्राकृतशैल्या, भजनीयावेव क्षेत्रकालौ, तुशब्द एवकारार्थः, स च भिन्नक्रमस्तथैव च योजितः, विकल्पश्चायं - कदाचित्तयोर्वृद्धिर्भवति कदाचिन्न, यतो द्रव्यं क्षेत्रादपि सूक्ष्मं, एकस्मिन्नपि नभः प्रदेशेऽनन्तस्कन्धावगाहनात्, द्रव्यादपि सूक्ष्मः पर्यायः, एकस्मिन्नपि द्रव्येऽनन्तपर्यायसम्भवात् ततो द्रव्यपर्यायवृद्धी क्षेत्रकालौ भजनीयावेव भवतः, द्रव्ये च वर्धमाने पर्याया नियमतो वर्धन्ते, प्रतिद्रव्यं संख्येयानामसंख्येयानां चावधिना १ काले प्रवर्धमाने सर्वे द्रव्यादयः प्रवर्धन्ते । क्षेत्रे कालो भाज्यो वर्धन्ते तु द्रव्यपर्यायाः ॥ १ ॥ at International For Personal & Private Use Only कालादिवृद्ध्यादौ क्षेत्रादिवृद्ध्यादि. १० १२ www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy