SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ श्रीमलयगिरीया नन्दीवृत्तिः क्षेत्रस्य सूक्ष्मतरता. ॥९५॥ परिच्छेदसंभवात् , पर्यायतो वर्द्धमाने द्रव्यं भाज्यं, एकस्मिन्नपि द्रव्ये पर्यायविषयावधिवृद्धिसम्भवात् , आह च भाष्यकृत्-“भैयणाए खेत्तकाला परिवडतेसु दवभावेसुं। दवे बड्डइ भावो भावे दवं तु भयणिज्जं ॥१॥” अत्राह-ननु जघन्यमध्यमोत्कृष्टभेदभिन्नयोः अवधिज्ञानसंबन्धिनोः क्षेत्रकालयोरङ्गुलावलिकाऽसंख्येयभागादिरूपयोः परस्परं समयप्रदेशसंख्ययोः किं तुल्यत्वमुत हीनाधिकत्वम् ?, उच्यते, हीनाधिकत्वं, तथाहि-आवलिकाया असङ्ख्येयभागे जघन्यावधिविषये यावन्तः समयाः तदपेक्षया अङ्गुलस्यासङ्ख्येयभागे जघन्यावधिविषय एव ये नभःप्रदेशास्ते अस येयगुणाः, एवं सर्वत्रापि अवधिविषयात् कालादसङ्ख्येयगुणत्वमवधिविषयस्य क्षेत्रस्थावगन्तव्यम् , उक्तं | च-"सबैमसंखेजगुणं कालाओ खेत्तमोहिविसयं तु । अवरोप्परसंबद्धं समयप्पएसप्पमाणेणं ॥१॥" अथ। क्षेत्रस्येत्थं कालादसङ्ख्येयगुणता कथमवसीयते ?, उच्यते, सूत्रप्रामाण्यात्, तदेव सूत्रमुपदर्शयति-'सूक्ष्मः' | श्लक्ष्णो भवति कालः, चशब्दो वाक्यभेदक्रमोपदर्शनार्थो यथा सूक्ष्मस्तावत्कालो भवति यस्मादुत्पलपत्रशतभेदे प्रतिपत्रमसद्धयेयाः समयाः प्रतिपाद्यन्ते ततः सूक्ष्मः कालः, तस्मादपि कालात सूक्ष्मतरं क्षेत्रं भवति, यस्मादङ्गुलमात्रे क्षेत्रे-प्रमाणाङ्गुलैकमात्रे श्रेणिरूपे नभःखण्डे प्रतिप्रदेशं समयगणनया असङ्खयेया अवसर्पिण्यस्ती- २ ॥९५॥ १ भजनया क्षेत्रकाली परिवर्धमानयोर्द्रव्यभावयोः । द्रव्ये वर्धते भावो भावे द्रव्यं तु भजनीयम् ॥ १॥ २ सर्वमसंख्येय गुणं कालात् क्षेत्रमबधिविषयं तु । परस्परसंबद्धं समयप्रदेशप्रमाणेन ॥ २ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy