SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ एवं सर्वत्रापि भावनीयम्, क्रिया च गाथाचतुष्टये स्वयमेव योजनीया । तथा द्वयोरङ्गुलावलिकयोः सङ्ख्येयौ भागौ पश्यति, अङ्गुलस्य सङ्ख्येयभागं पश्यन् आवलिकाया अपि संख्येयमेव भागं पश्यतीत्यर्थः । तथा 'अङ्गुलम्' अङ्गुलमात्रं क्षेत्रं पश्यन् 'आवलिकान्तः' किञ्चिदूनामवलिकां पश्यति, आवलिकां चेत् कालतः पश्यति तर्हि क्षेत्रतोऽङ्गुलपृथक्त्वं - अङ्गुल पृथक्त्वपरिमाणं क्षेत्रं पश्यति, उक्तं च-" "संखेजंगलभागे आवलियाएवि मुणइ तइभागं । अंगुलमिह पेच्छंतो आवलियंतो मुणइ कालं ॥ १ ॥ आवलियं मुणमाणो संपुन्नं खेत्तमंगुलपुहुत्त "मिति, पृथक्त्वं द्विप्रभृतिरानवभ्य इति । तथा 'हस्ते' हस्तमात्रे क्षेत्रे ज्ञायमाने कालतो 'मुहूर्त्तान्तः पश्यति' अन्तर्मुहूर्त्त प्रमाणं कालं पश्यतीत्यर्थः, तथा कालतो 'दिवसान्तः' किञ्चिदूनं दिवसं पश्यन् क्षेत्रतो 'गव्यूते' गव्यूतविषयो द्रष्टव्यः, तथा 'योजनं' योजनमात्रं | क्षेत्रं पश्यन् कालतो दिवसपृथक्त्वं पश्यति, दिवसपृथक्त्वमानं कालं पश्यतीत्यर्थः, तथा 'पक्षान्तः' किञ्चिदूनं पक्षं पश्यन् क्षेत्रतः पञ्चविंशतियोजनानि पश्यति । 'भरते' सकलभरतप्रमाणक्षेत्रावधौ कालतोऽर्द्धमास उक्तः, भरतप्रमाणं क्षेत्रं पश्यन् कालतोऽतीतमनागतं चार्द्धमासं पश्यतीत्यर्थः एवं जम्बूद्वीपविषयेऽवधौ साधिको मासः कालतो विषयत्वेन बोद्धव्यः । तथा 'मनुष्यलोके मनुष्यलोकप्रमाणक्षेत्रविषयेऽवधौ 'वर्षे' संवत्सरमतीतमनागतं च पश्यति, तथा रुचकाख्ये रुचकाख्यबाह्यद्वीपप्रमाणक्षेत्रविषयेऽवधौ वर्षपृथक्त्वं पश्यति । तथा सङ्ख्यायत १ संख्याताहुलभागान् आवलिकाया अपि मुगति ततिभागान् । अङ्गुलमिह पश्यन् आवलिकान्तर्मुणति कालम् ॥१॥ आवलिकां जानन् संपूर्ण क्षेत्रमञ्जुल पृथक्लम् । Jain Educaternational For Personal & Private Use Only मध्यमा वधि क्षेत्र - कालौ. ५ १२ www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy