SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ श्रीमलयगिरीया नन्दीवृत्तिः ॥ ९३ ॥ कलक्ष्मीमालिङ्गति, उक्तं च- 'परंमोहिनाटिओ केवलमंतोमुहुत्तमेत्तेणं । एवं तावज्जघन्यमुत्कृष्टं चावधिक्षेत्रमुक्तं, सम्प्रति मध्यमं प्रतिपिपादयिपुरे तावत्क्षेत्रोपलम्भे एतावत्कालोपलम्भः एतावत्कालोपलम्भे चैतावत्क्षेत्रोपलम्भ इत्यस्यार्थस्य प्रकटनार्थ गाथाचतुष्टयमाह - अङ्गुलमिह क्षेत्राधिकारात् प्रमाणाङ्गुलमभिगृह्यते, अन्येत्वाद्दुः - अवध्यधिकारादुत्सेधाङ्गुलमिति, आवलिका असङ्ख्येयसमयात्मिका अङ्गुलं चावलिका चाङ्गुलावलिकेतयोरङ्गुलावलिकयोर्भागमसङ्ख्येयमसङ्ख्येयं पश्यत्यवधिज्ञानी, इदमुक्तं भवति - क्षेत्रतोऽङ्गुलासज्येयभागमात्रं पश्यन् कालत आवलिकाया असङ्ख्येयमेव भागमतीतमनागतं च पश्यति, उक्तं च- 'खेत्तमसंखेजंगुलभागं पासं तमेव कालेणं । आवलियाए भागं तीयमणायं च जाणाइ ॥ १ ॥' आवलिकायाश्वासयेयं भागं | पश्यन् क्षेत्रतोऽङ्गुलासङ्ख्येयभागं पश्यति, एवं सर्वत्रापि क्षेत्रकालयोः परस्परं योजना कर्त्तव्या, क्षेत्रकालदर्शनं चोपचारेण द्रष्टव्यं, न साक्षात्, न खलु क्षेत्रं कालं वा साक्षादवधिज्ञानी पश्यति, तयोरमूर्त्तत्वात्, रूपिद्रव्यविषयश्चावधिः, तत एतदुक्तं भवति-क्षेत्रे काले च यानि द्रव्याणि तेषां च द्रव्याणां ये पर्यायास्तान् पश्यतीति, उक्तं च - " तैत्थेव य जे दवा तेसिंचिय जे हवंति पज्जाया । इय खेत्ते कालंमि य जोएजा दवपज्जाए ॥ १ ॥" १ परमावधिज्ञान स्थितः (विदः) केवलमन्तर्मुहूर्तमात्रेग । २ क्षेत्रमसंख्येयाकुलभागं पश्यन् तमेव कालेन । आवलिकाया भार्ग अतीतमनागतं च जानाति ॥ १ ॥ ३ तत्रैव च यानि द्रव्याणि तेषामेव च ये भवन्ति पर्यायाः । एवं क्षेत्रे काले च योजयेत् द्रव्यपर्यायान् ॥ १ ॥ Jain Education International For Personal & Private Use Only मध्यमावधिक्षेत्रकालौ. १५ २० २१ ॥ ९३ ॥ Yinelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy