________________
HRASESORES
सावगाहे य । चउरंसं पण पयर सेढी छटो सुयादेसो ॥१॥” ततश्चासौ श्रेणिः खावगाहनासंस्थापितसकलानलजी-18 जघन्यायवावलीरूपा अवधिज्ञानिनः सर्वासु दिक्षु शरीरपर्यन्तेन भ्राम्यते, सा च भ्राम्यमाणा असंख्येयान् लोकमात्रान् क्षेत्र- वधिक्षेत्रविभागानलोके व्याप्नोति, एतावत्क्षेत्रमवधेरुत्कृष्टमिति, उक्तं च-"निययावगाहणागणिजीवसरीरावली समन्तेणं । कालो. भामिजइ ओहिनाणिदेहपजंतओ सा य ॥१॥ अइगंतूणमलोगे लोगागासप्पमाणमेत्ताई । ठाइ असंखेज्जाई इदमोहिक्खेत्तमुक्कोसं ॥ २॥” इदं च सामर्थ्यमात्रमुपवर्ण्यते, एतावति क्षेत्रे यदि द्रष्टव्यं भवति तर्हि पश्यति, यावता | तन्न विद्यते, अलोके रूपिद्रव्याणामसम्भवात् , रूपिद्रव्यविषयश्चावधिः, केवलमयं विशेषो-यावदद्यापि परिपूर्णमपि लोकं पश्यति तावदिह स्कन्धानेव पश्यति. यदा पुनरलोके प्रसरमवधिरधिरोहति तदा यथा यथाऽभिवृद्धिमासादयति तथा २ लोके सूक्ष्मान् सूक्ष्मतरान् स्कन्धान पश्यति, यावदन्ते परमाणुमपि, उक्तं च-"सौमत्थमेत्तमुत्तं दटुवं जइ हवेजा पेच्छेजा।न उतं तत्थत्थि जओ सो रूविनिबंधणो भणिओ ॥१॥ वहृतो पुण बाहिं लोगत्थं चेव ॥ पासई दवं । सुहुमयरं २ परमोही जाव परमाणू ॥२॥" परमावधिकलितश्च नियमादन्तर्मुहूर्तमात्रेण केवलालो-||
१ खावगाहनया च । चतुरस्त्रं धनं प्रतरं श्रेणिं षष्ठः सूत्रादेशः ॥१॥२ निजावगाहनाग्निजीवशरीरावली समन्तात् । भ्राम्यते अवधिज्ञानिदेहपर्यन्ततः सा च | ॥१॥ अतिगत्यालोके लोकाकाशप्रमाणमात्राणि । तिष्ठति असंख्येयानि इदमवधिक्षेत्रमुत्कृष्टम् ॥२॥ ३ सामर्थ्यमात्रमुकं द्रष्टव्यं यदि भवेत् प्रेक्षेत । न तु | तत्तत्रास्ति यतः स रूपिनियन्धनो भणितः ॥१॥ वर्धमानः पुनर्बहिः लोकस्थं चैव पश्यति द्रव्यम् । सूक्ष्मतरं सूक्ष्मतरं परमावधिर्यावत्परमाणुम् ॥ २॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org