SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ हारकस्येति विशेषणं पनकस्य, न च मत्स्यायामप्रतरसंहरणसमयौ पनकभवस्य सम्बन्धिनी, किन्तु मत्स्यभवस्य, तत उत्पादसमयादारभ्य त्रिसमयाहारकस्येति द्रष्टव्यम्, नान्यथा । एतावत्प्रमाणं जघन्यं क्षेत्रमत्रधेः, तैजसभाषाप्रायोग्यवर्गणापान्तरालवर्त्तिद्रव्यमालम्बते 'तेयां भासाद वाणमंतरा एत्थ लहर पट्टवओ' इति वचनात् तदपि चाल-च्यमानं द्रव्यं द्विधा - गुरुलघु अगुरुलघु च, तंत्र तैजसप्रत्यासन्नं गुरुलघु भाषाप्रत्यासन्नं चागुरुलघु, तद्गतांश्च पर्यायान् चतुःसंख्यानेव वर्णरसगन्धस्पर्शलक्षणान् पश्यति न शेषान्, यत आह-- “दवांई अंगुलावलिसंखेजातीतभागविसयाई । पेच्छइ चउग्गुणाई जहन्नओ मुत्तिमताई ॥ १ ॥' अत्र 'जघन्यत' इति जघन्यावधिज्ञानी । तदेवं जघन्यमवधेः क्षेत्रमभिधाय साम्प्रतमुत्कृष्टमभिधातुकाम आह--यतः ऊर्द्धमन्य एकोऽपि जीवो न कदाचनापि प्राप्यते ते सर्ववहवः सर्ववहवश्च ते अग्निजीवाश्थ सूक्ष्मवादररूपाः सर्ववह्वग्निजीवाः, कदा सर्ववह्नभिजीवा इति चेद्, उच्यते, यदा सर्वासु कर्मभूमिषु निर्व्याघातमनिकायसमारम्भकाः सर्ववहवो मनुष्याः, ते च प्रायोजितखामितीर्थकरकाले प्राप्यन्ते, यदा चोत्कृष्टपदवर्त्तिनः सूक्ष्मानलजीवाः तदा सर्ववह्वग्निजीवाः, उक्तं च – “ अवाघाए सवासु कम्मभूमिसु जया तयारंभा । सङ्घबहवो मणुस्सा होंतिऽजियजिनिंदकालंमि ॥ १ ॥ उक्कोसिया य सुहुमा जया १ तेजोभाषाद्रव्याणामन्तरा अत्र पश्यति प्रस्थापकः । २ द्रव्याणि अङ्गुलावली संख्यातीत भागविषयाणि । प्रेक्षते चतुर्गुणानि जघन्यतो मूर्तिमन्ति ॥ १ ॥ ३ अव्याघाते सर्वासु कर्मभूमिषु यदा तदारम्भकाः । सर्वबहवो मनुष्या भवन्ति अजितजिनेन्द्रकाले ॥ १ ॥ उत्कृष्टाश्च सूक्ष्मा यदा Jain Education International For Personal & Private Use Only जघन्याद्यवधिक्षेत्रकालौ. ५ १० ११ 150 www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy