________________
श्रीमलयगिरीया नन्दीवृत्तिः
11 2011
कारनिमग्नजिनप्रवचनप्रदीपो जिनभद्रगणिक्षमाश्रमणः - " वेमाणियाणमंगुलभागमसंखं जहन्नओ होइ (ओही ) । उपवाए परभविओ तब्भवजो होइ तो पच्छा ॥ १ ॥” एवं सनत्कुमारादिदेवानामपि द्रष्टव्यम्, नवरमधोभागदर्शने विशेषः ततः स प्रदर्श्यते - सनत्कुमारमाहेन्द्रदेवा अधस्तात् शर्करप्रभायाः सर्वान्तिममधस्तनं भागं यावत्पश्यन्ति, | ब्रह्मलोकलान्तकदेवास्तृतीयपृथिव्याः, महाशुक्रसहस्रार कल्पदेवाश्चतुर्थपृथिव्याः, आनतप्राणतारणाच्युतदेवाः पञ्चमपृथिव्याः, अधस्तनमध्यमग्रैवेयकदेवाः षष्ठपृथिव्याः उपरितनयैवेयकदेवाः सप्तमपृथिव्याः, अनुत्तरोपपातिनः सम्पूर्ण लोकनालिं चतुर्द्दशरज्यात्मिकामिति, उक्तं च प्रज्ञापनायां - "सोहम्मगदेवा णं भंते! केवइयं खेत्तं ओहिणा जाणंति पासंति ?, गोयमा ! जहन्त्रेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं जाव इमीसे रयणप्पभाए पुढवीए हेट्ठिले चरमंते, तिरियं जात्र असंखेज्जे दीवससुद्दे, उडं जाव सगाई विमाणाई ओहिणा जाणंति पासंति । एवं ईसाणगदेवावि, सणकुमारदेवा एवं चेव, नवरं अहे जाव दोचाए सक्करप्पभाए पुढविए हिट्टिले चरिमंते, एवं माहिंददेवावि, बंभलोगलंतगदेवा तच्चाए पुढवीए हिट्टिले चरिमंते, महासुक्कसहस्सारदेवा चउत्थीए पंकप्पभाए
१ वैमानिकानामशुल भागोऽसंख्यो जघन्योऽवधिर्भवति । उपपाते पारभविकस्तद्भवजो भवति ततः पश्चात् ॥ १ ॥ २ सौधर्मदेवा भदन्त । कियत् क्षेत्रमवधिना जानन्ति पश्यन्ति ?, गौतम ! जघन्येनाङ्गुलस्या संख्येयभागं उत्कृष्टेन यावदस्या रत्नप्रभाया अघस्तनश्चरमान्तः, तिर्यग्यावत् असंख्यातान् द्वीपसमुद्रान् ऊर्ध्वं यावत् स्वकानि विमानानि अवधिना जानन्ति पश्यन्ति । एवमीशानदेवा अपि सनत्कुमारदेवा एवमेव, नवरं अधो यावद्वितीयस्याः शर्करप्रभायाः पृथ्व्या अवस्तनश्वरमान्तः, एवं माहेन्द्रा देवा अपि ब्रह्मलोकलान्तकदेवास्तृतीयायाः पृथ्व्या अधस्तनश्वरमान्तः, महाशुक सहस्रार देवाश्चतुर्थ्याः पङ्कप्रभायाः
For Personal & Private Use Only
Jain Education International
नारकासुरादीनाम
वधिः,
१५
२०
२१
112011
Sainelibrary.org