SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Jain Edu कुमारा, वाणमंतरा जहा नागकुमारा" । इह पञ्चविंशतियोजनानि भवनपतयो व्यन्तरा वा जघन्यतस्ते पश्यन्ति येषामायुर्द्दशवर्षसहस्रप्रमाणं, न शेषाः, आह च भाष्यकृत् - " पणवीसजोयणाई दसवास सहस्सिया ठिई जेसि" मिति । ज्योतिष्काः पुनर्देवा जघन्यतोऽपि सङ्ख्येयान् द्वीपसमुद्रानवधिज्ञानतः पश्यन्ति, उत्कर्षतोऽपि सङ्ख्येयान् द्वीपसमुद्रान्, केवलमधिकतरान् यदाह - "जोइँसिया णं भंते! केवइयं खित्तं ओहिणा जाणंति पासंति ?, गोयमा ! जहन्त्रेणऽवि संखेजे दीवसमुद्दे उक्कोसेणवि संखेजे दीवसमुद्दे" । सौधर्मकल्पवासिनो देवाः पुनरवधिज्ञानतो जघन्येनाङ्गुला सङ्खधेयभागमात्रं पश्यन्ति उत्कर्षतोऽधस्ताद्रत्नप्रभायाः पृथिव्याः सर्वान्तिममधस्तनं भागं यावत् तिर्यक्षु असङ्ख्येयान् द्वीपसमुद्रान् ऊर्द्ध तु स्वकल्पविमानस्तूपध्वजादिकं, एवमीशानदेवा अपि । अत्राह - नन्वङ्गुला सङ्ख्ये - यभागमात्रक्षेत्र परिमितोऽवधिः सर्व्वजघन्यो भवति, सर्वजघन्यश्चावधिस्तिर्यग्मनुष्येष्येव, न शेषेषु, यत आह भाव्यकृत्स्वकृतभाष्यटीकायाम् “उत्कृष्टो मनुष्येष्येव, नान्येषु, मनुष्यतिर्यग्योनिष्वेव जघन्यो नान्येषु, शेषाणां मध्यम एवेति, तत्कथमिह सर्वजघन्य उक्तः ?, उच्यते, सौधर्मादिदेवानां पारभविकोऽप्युपपातकालेऽवधिः सम्भवति, स च सर्वजघन्योऽपि कदाचिदवाप्यते, उपपातानन्तरं तु तद्भवजः, ततो न कश्चिद्दोषः, आह च दुष्षमान्ध १ कुमाराः, व्यन्तरा यथा नागकुमाराः । २ पञ्चविंशतिं योजनानि दश वर्षसहस्राणि स्थितिर्येषामिति । ३ ज्योतिष्का भदन्त । कियत् क्षेत्रमवधिना जानन्त्रि पश्यन्ति ?, गौतम ! जघन्येनापि संख्येयान् द्वीपसमुद्रान् उत्कृष्टे नापि संख्येयान् द्वीपसमुद्रान् ॥ emational For Personal & Private Use Only नारकासुरादीनाम वधिः. ५ १० www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy