SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ श्रीमलय ॥ ८४ ॥ मणिः - प्रतीतः, 'ज्योतिर्वा' ज्योतिः शरावाद्याधारो ज्वलन्नग्निः, आह च चूणिकृत् - " जोईत्ति मलगाइठिओ गिरीया अगणी जलतो" इति, 'प्रदीपं वा' प्रदीपः प्रतीतः 'पुरतः ' अग्रतो हस्ते दण्डादौ वा कृत्वा 'पणोलेमाणो 'ति प्रणुनन्दीवृत्तिः ॐ दन् २ हस्तस्थितं वा क्रमेण स्वगत्यनुसारतः प्रेरयन् २ 'गच्छेत्' यायात्, एप दृष्टान्तः, उपनयस्तु स्वयमेव भाव - नीयः, तत उपसंहारः-' से तं पुरओ अंतगयं' सेशब्दः प्रतिवचनोपसंहारदर्शने, तदेतत् पुरतोऽन्तगतं, इयमत्र भावना -यथा स पुरुष उल्कादिभिः पुरत एव पश्यति, नान्यत्र, एवं येनावधिज्ञानेन तथाविधक्षयोपशमभावतः पुरत एव पश्यति, नान्यत्र, तदवधिज्ञानं पुरतोऽन्तगतमभिधीयते । एवं मार्गतोऽन्तयत पार्श्वतोऽन्तगतसूत्रं भावनीयं, नवरं 'अणुकट्ठेमाणे अणुकडेमाणे' त्ति हस्तगतं दण्डाग्रादिस्थितं वा अनु-पश्चात् कर्षन् अनुकर्षन्, पृष्ठतः पश्चात् कृत्वा समाकर्षन् २ इत्यर्थः । तथा 'पासओ परिकडेमाणे 'त्ति पार्श्वतो दक्षिणपार्श्वतोऽथवा वामपार्श्वतो यद्वा द्वयोरपि पार्श्वयोरुल्कादिकं हस्तस्थितं दण्डाग्रादिस्थितं वा परिकर्षन्, पार्श्वभागे कृत्वा समाकर्षन् समाकर्षन्नित्यर्थः, 'से किं तं मज्झगतमित्यादि निगदसिद्धं नवरं 'मस्तके' शिरसि कृत्वा गच्छेत् तदेतत् मध्यगतं इयमत्र भावना - यथा तेन मस्तकस्थेन सर्वासु दिक्षु पश्यति, एवं येनावधिज्ञानेन सर्वासु दिक्षु पश्यति तन्मध्यगतमिति । इत्यम्भूतां च व्याख्यां सम्यगनवबुध्यमानः शिष्यः प्रश्नं करोति - १ ज्योतिरिति महकादिस्थितोऽग्निर्ज्वलन् Jain Education International For Personal & Private Use Only पुरतोऽन्तगता दयोऽवधायः १५ २० ॥ ८४ ॥ २६ www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy