SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ शमभावेऽप्यौदारिकशरीरमध्यभागेनोपलब्धिस्तन्मध्ये गतं मध्यगतं, उक्तं चूर्णी-“ओरालियसरीरमझे फडगविसुद्धीओ पुरतोऽन्तसबायप्पएसविसुद्धीओ वा सवदिसोवलम्भत्तणओ मज्झगउत्ति भन्नति” अथवा तेनावधिज्ञानेन यदुद्योदितं क्षेत्रं गतादयोसर्वासु दिक्षु तस्य मध्ये-मध्यभागे गतं-स्थितं मध्यगतम् , अवधिज्ञानिनः तदुद्योतितक्षेत्रमध्यवर्त्तित्वात् , आह च वधयः |चूर्णिणकृत्-"अहंवा उपलद्धिखेत्तस्स अवहिपुरिसो मज्झगउत्ति, अतो वा मज्झगओ ओही भन्नइ" इति, चशब्दः स्वगतानेकभेदसूचकः-अथ किं तदन्तगतं ?, अन्तगतं 'त्रिविधं त्रिप्रकारं प्रज्ञप्तम, तद्यथा तत्र 'पुरतः' अवधिज्ञानिनः खव्यपेक्षया अग्रभागेऽन्तगतं पुरतोऽन्तगतं, तथा मार्गतः-पृष्ठतः अन्तगतं मार्गतोऽन्त|| गतं, तथा पार्श्वतो-द्वयोः पार्थयोरेकतरपार्श्वतो वाऽन्तगतं पार्थतोऽन्तगतं । अथ किं तत्पुरतोऽन्तगतं?, 'से जहा'| इत्यादि, 'स' विवक्षितो यथानामकः कश्चित्पुरुषः, अत्र सर्वेष्वपि पदेष्वेकारान्तत्वम् 'अतः सौ पुंसी'ति | IPमागधिकभाषालक्षणात् , सर्वमपि हि प्रवचनमद्धमागधिकभाषात्मकम् , अर्द्धमागधिकभाषया तीर्थकृतां देशनाप्रवृत्तेः, सततःप्रायः सर्वत्रापि मागधिकभाषालक्षणमनुसरणीयं । 'उक्का चेति' उल्का-दीपिका, वाशब्दः सर्वोऽपि विकल्पार्थः, 'चटुली वा' चटुली:-पर्यन्तज्वलिततृणपूलिका 'अलातं वा' अलातमुल्मुकं अग्रभागे ज्वलत्काष्ठमित्यर्थः, 'मणिर्वा' DAMADAMENTAR १. ला १ औदारिकशरीरमध्ये स्पर्धकविशुद्धेः सर्वात्मप्रदेशविशुद्धितो वा सर्वदिशोपलम्भात् मध्यगतमिति भण्यते । २ अथवोपलब्धिक्षेत्रस्यावधिपुरुषो मध्यगत इति अतो वा मध्यगतमवधिर्भण्यते । ३ Jain Ed e rational For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy