________________
श्रीमलयगिरीया
नन्दीवृत्तिः ॥ ८३ ॥
कयाचिदेकदिशोपलम्भात् इदमपि स्पर्द्धक रूपमवधिज्ञानं, अथवा सर्वेषामप्यात्मप्रदेशानां क्षयोपशमभावेऽपि औदारिकशरीरान्तेनैकया दिशा यद्वशादुपलभ्यते तदप्यन्तगतम् । आह-यदि सर्वात्मप्रदेशानां क्षयोपशमस्ततः सर्वतः किं न पश्यति ?, उच्यते, एकदिशैव क्षयोपशमसंभवात्, विचित्रो हि क्षयोपशमः, ततः सर्वेषामप्यात्मप्रदेशानामित्थम्भूत एव स्वसामग्रीवशात् क्षयोपशमः संवृत्तो यदादारिकशरीरमपेक्ष्य कयाचित् विवक्षितयैकया दिशा पश्यतीति, उक्तं चूण्णौ- “ ओरालियसरी रंते ठियं गयंति एगहूं, तं चायप्पएसफडगा वहि एगदिसोवलम्भाओ य अंतगयमोहिनाणं भन्नई, अहवा सचायप्पएसेसु विसुद्धेऽवि ओरालिय सरीरगन्तेण एगदिसि पासणा गयंति अन्तगयं भन्नइ " । तृतीयोऽर्थ एकदिग्भाविना तेनावधिज्ञानेन यदुद्योतितं क्षेत्रं तस्यान्ते वर्त्तते तदवधिज्ञानम्, अवधि - ज्ञानवतः तदन्ते वर्त्तमानत्वात्, ततोऽन्ते - एकदिग्रूपस्यावधिज्ञानविषयस्य पर्यन्ते व्यवस्थितमन्तगतं । चशब्दो देशकालाद्यपेक्षया स्वगतानेकभेदसूचकः, तथा 'मध्यगतं चेति इह मध्यं प्रसिद्धं दण्डादिमध्यवत्, ततो मध्ये गतं मध्यगतं इदमपि त्रिधा व्याख्येयं, आत्मप्रदेशानां मध्ये-मध्यवर्त्तिष्वात्मप्रदेशेषु गतं स्थितं मध्यगतं इदं च रूपर्द्धक रूपमवधिज्ञानं सर्वदिगुपलम्भकारणं मध्यवर्त्तिनामात्मप्रदेशानामवसेयम्, अथवा सर्वेषामप्यात्मप्रदेशानां क्षयोप
१ औदारिकशरीरस्यान्ते स्थितं गतमिति एकार्थों, तचाश्म प्रदेशस्पर्धकात् बहिरेकदिशोपलम्भात् अन्तगतमवधिज्ञानं भण्यते, अथवा सर्वात्मप्रदेशेषु विशु|देष्वपि औदारिकशरीरस्यान्तेनैकदिशि दर्शनात् गतमित्यन्तगतं भण्यते ।
Jain Educational
For Personal & Private Use Only
पुरतोऽन्तगतादयो
ऽवधयः
१५
२०
॥ ८३ ॥
२५
www.ainelibrary.org