SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ दपदम्. दाचित् विशिष्टगुणप्रतिपत्तिमन्तरेण कदाचित् पुनर्विशिष्टगुणप्रतिपत्त्या, विशिष्टगुणप्रतिपत्तिमन्तरेण कथमिति आनुगामुचेद, उच्यते, इह यथा दिवाकरमण्डलस्य धनपटलाच्छादितस्य कथञ्चिद्विस्रसापरिणामेन घनपटलपुद्गलानां निः कादादिमेस्नेहीभूय परिक्षयतः समुपजातेन रन्ध्रेण तिमिरनिकरोपसंहारहेतवो भानवः खावपातदेशास्पदं द्रव्यमुद्योतयन्ति तथा प्रकृतिभासुरस्य आत्मनो मिथ्यात्वादिहेतूपचयोपजनितावधिज्ञानावरणपटल तिरस्कृतखरूपस्य संसारे परिभ्रमतः कथञ्चिदेवमेव तथाविधशुभाध्यवसायप्रवृत्तितोऽवधिज्ञानावरणसम्बन्धिनां सर्वघातिरसस्पर्द्धकानां देशघातिरसस्पर्द्ध-15 कतया जातानामुदयावलिकाप्राप्तस्यांशस्य परिक्षयतोऽनुदयावलिकाप्राप्तस्योपशमतः समुद्भतेन क्षयोपशमरूपेण रन्ध्रेण विनिर्गतोऽवधिज्ञानालोकः प्रसाधयति खकार्य, कदाचित् पुनर्विशिष्टगुणप्रतिपत्तितः सर्वघातीनि रसस्पर्द्धकानि देशघातीनि भवन्ति, तथा चोक्तम्| अहवा गुणपडिवन्नस्स अणगारस्स ओहिनाणं समुप्पजइ, तं समासओ छविहं पन्नत्तं, तंजहा-1 आणुगामिअं १ अणाणुगामि २ वड्डमाणयं ३ हीयमाणयं ४ पडिवाइयं ५ अप्पडिवाइयं ६ (सू. ९)। FI 'अथवे'ति प्रकारान्तरोपदर्शने, प्रकारान्तरता च गुणप्रतिपत्तिमन्तरेणेत्यपेक्ष्य द्रष्टव्या, गुणाः-मूलोत्तररूपाः तान् | प्रतिपन्नो गुणप्रतिपन्नः, अथवा गुणैः प्रतिपन्नः पात्रमितिकृत्वा गुणैराश्रितो गुणप्रतिपन्नः, अनेन पात्रतायां सत्यां 3 है खयमेव गुणा भवन्तीति प्रतिपादयति, उक्तं च-"नोदवानर्थितामेति, न चाम्भोभिर्न पूर्यते । आत्मा तु पात्रतां AUCUNSAASSASASALARIATORE Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy