SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Jain Ed 4 दयभावतः तेषां क्षयोपशमासम्भवाद्, अथ च मतिज्ञानादिवलप्रभावतः तस्या अवस्थायाः सम्प्राप्तिस्ततः इतरेतराश्रयदोषचैवस्वतमुखोपनिपातित्वान्न कदाचिदपि मतिज्ञानादिसम्भवः, अपि च मतिश्रुतज्ञानाचक्षुदर्शनान्यपि क्षायोपशमिकाणि, क्षयोपशमश्च यदि विपाकोदये भवति तर्हि देशघातिरसस्पर्द्धकानामेव न सर्वघातिरसस्पर्द्धकानां, | देशघातीनि च रसस्पर्द्धकानि अनिवृत्तिवादरसम्परायाद्धायां ततस्तेषामपि ततोऽर्वागभावः प्राप्नोति, अथ च सर्वजीवानामपि तामवस्थामप्राप्तानाममूनि विद्यन्ते ततोऽवश्यमेतदुररी कर्त्तव्यं भवन्ति देशघातिनीनां प्रकृतीनां सर्वघातीन्यपि रसस्पर्द्धकान्यध्यवसायविशेषतो देशघातीनीति, अथ यथा देशघातिनीनां सर्वघातीनि रसस्पर्द्धकानि अध्यवसाय विशेषतो देशघातीनि भवन्ति तथा सर्वघातिनोः केवलज्ञानावरण केवलदर्शनावरणयोरपि कस्मान्नोपजायन्ते ?, उच्यते, तथाखाभान्यात्, तथाहि - तथारूपा एव ते पुद्गलाः केवलज्ञान केवलदर्शनावरणयोर्योग्या ये द्विस्थानकरसपरिणता अपि न देशघातिनो भवन्ति, नापि तेषां विपाकोदयनिरोधसम्भवः, शेषाणां तु सर्वघातिप्रकृतीनां रसस्पर्द्धकानि भवन्त्येवाध्यवसायविशेषतो विपाकोदयविष्कम्भभाञ्जि, तथाखाभाव्याद् एतच्चावसीयते तथाकार्यदर्शनात् तथाहि - सम्यक्त्वसम्यगूमिथ्यात्व देशविरति सामायिकच्छेदोपस्थापन परिहारविशुद्धिकसूक्ष्म सम्पराय संयमाः क्षायोपशमिका उपवर्ण्यन्ते, यत उक्तं - " खओवसमिया सम्मदंसणलद्धी खओवसमिया सम्मा १ क्षायोपशमिकी सम्यग्दर्शनलब्धिः क्षायोपशमिकी सम्य । ternational For Personal & Private Use Only देशघात्यु - | दये क्षयोपशमभावः. १० १३ www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy