________________
एकादी
निरसस्थानकानि.
णामावर्त्तने कृते सति एकः कर्षोऽवशिष्टः त्रिस्थानकः, चतुणों कर्षाणामावर्त्तने कृते सति उद्धरति य एकः कर्षः स चतुःस्थानकः, एकस्थानकोऽपि च रसो जललवबिन्दुचुलुकाईचुलुकप्रसृत्यअलिकरककुम्भद्रोणादिप्रक्षेपात् मन्दमन्दतरादिबहुभेदत्वं प्रतिपद्यते, एवं द्विस्थानकादयोऽपि, एवं कर्मणामपि चतुःस्थानकादयो रसा भावनीयाः प्रत्येकमनन्तभेदभाजश्च, कर्मणां चैकस्थानकादयो रसाः यथोत्तरमनन्तगुणा वेदितव्याः, उक्तं च-“अणंतगुणिया कमेणियरे" तत्राशुभप्रकृतीनां चतुःस्थानकरसबन्धः प्रस्तररेखासदृशैः अनन्तानुबन्धिकोधादिकैः क्रियते दिनकरातपशोषिततडागभूरेखासदृशैरप्रत्याख्यानसंज्ञैः क्रोधादिभिः त्रिस्थानकरसबन्धः सिकताकणसंहतिगतरेखासदृशैः प्रत्याख्यानावरणसंज्ञैर्द्विस्थानकरसबन्धो जलरेखासदृशैस्तु सज्वलनसंज्ञैरेकस्थानकरसबन्धः, शुभप्रकृतीनां पुनरेतदेव व्यत्यासेन योजनीयम् , नवरं द्विस्थानकादारभ्य, तथा चोक्तम्-"पवयभूमीवालुयजलरेहासरिस संपराएसुं। चउठाणाई असुभाण सेसयाणं तु वचासो ॥१॥” इति, शेषकाणां' शुभप्रकृतीनां व्यत्यासो द्रष्टव्यः, |संच द्विस्थानकादारभ्य, यथोक्तं प्राक् । अथ कथमवसीयते ? यदुत द्विस्थानकादारभ्य व्यत्यासो नैकस्थानकादारभ्य ?, उच्यते, शुभप्रकृतीनामेकस्थानकरसबन्धस्यासम्भवाद् , असम्भवः कथमिति चेद्, उच्यते, इहात्यन्तविशुद्धौ वर्तमानः शुभप्रकृतीनां चतुःस्थानकमेव रसं बध्नाति, ततो मन्दमन्दतरविशुद्धौ त्रिस्थानकं द्विस्थानकं वा, सक्लेशाद्धायां तु वर्त. १ अनन्तगुणाः क्रमेणेतरे । २ पर्वतभूमिवालुकाजलरेखासदृशैः संपरायैः । चतुःस्थानादयः अशुभामां शेषाणां तु व्यत्यासः ॥ १ ॥
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org