SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ श्रीमलयगिरीया नन्दीवृत्तिः ॥ ७७ ॥ अनुदीर्णानाम् उदयावलिकामप्राप्तानामुपशमेन विपाकोदयविष्कम्भणलक्षणेनावधिज्ञानमुत्पद्यते तेन कारणेन क्षायोपशमिकमित्युच्यते, क्षयोपशमश्च देशघातिरसस्पर्द्धकानामुदये सति भवति न सर्वघातिरसस्पर्द्धकानाम्, अथ किमिदं देशघातीनि सर्वघातीनि वा रसस्पर्द्धकानीति ?, उच्यते, इह कर्म्मणां प्रत्येकमनन्तानन्तानि रसस्पर्द्धकानि भवन्ति, रसस्पर्द्धकखरूपं च कर्म्मप्रकृतिटीकायां सप्रपञ्चमुपदर्शितमिति न भूयो दर्श्यते, तत्र केवलज्ञानावरणीयादिरूपाणां सर्वघातिनीनां प्रकृतीनां सर्वाण्यपि रसस्पर्द्धकानि सर्वघातीनि, देशघातिनीनां पुनः कानिचित् सर्वघातीनि कानिचिद्देशघातीनि तत्र यानि चतुःस्थानकानि त्रिस्थानकानि वा रसस्पर्द्धकानि तानि नियमतः सर्वघा - तीनि, द्विस्थानकानि पुनः कानिचिद्देशघातीनि कानिचित्सर्वघातीनि एकस्थानकानि तु सर्वाण्यपि देशघातीन्येव, उक्तं च- " चउतिट्ठाणरसाणि य सबधाईणि होंति फड्डाणि । दुट्ठाणियाणि मीसाणि देसघाईणि सेसाणि ॥ १ ॥ " अथ | किमिदं रसस्य चतुःस्थानकत्रिस्थानकत्वादि ?, उच्यते, इह शुभप्रकृतीनां रसः क्षीरखण्डादिरसोपमः अशुभप्रकृतीनां तु निम्बघोपातक्यादिरसोपमः, उक्तं च- 'घोसाडइनिंबुवमो असुभाण सुभाण खीरखंडुवमों क्षीरादिरसश्च स्वाभाविक एकस्थानकः, द्वयोस्तु कर्षयोरावर्त्तने कृते सति योऽवशिष्यते एकः कर्षकः स द्विस्थानकः, त्रयाणां कर्पा १ चतुस्त्रिस्थानरसानि च सर्वघातीनि भवन्ति स्पर्धकानि । द्विस्थानकानि मिश्राणि देशघातीनि शेषाणि ॥ १ ॥ २ घोषात की निम्बोपमो शुभानां शुभानां क्षीरखण्डोपमः । Jain Education International For Personal & Private Use Only क्षयोपशमप्रक्रिया. १५ २० ॥ ७७ ॥ २६ Www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy