SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ द्वयोर्जीव समूहयोः भवप्रत्ययं तद्यथा देवानां च नारकाणां च तत्र दिव्यन्ति - निरुपमक्रीडामनुभवन्तीति देवाः तेषां तथा नरान् कायन्ति शब्दयन्ति योग्यताया अनतिक्रमेणाकारयन्ति जन्तून् स्वस्थाने इति नरकाः तेषु भवा नारकाः तेषां चशब्द उभयत्रापि खगतानेकभेदसूचकः, ते च संस्थानचिन्तायामने दर्शयिष्यन्ते । अत्राह परः - नन्ववधिज्ञानं क्षायोपशमिके भावे वर्त्तते नारकादिभवश्चौदयिके तत्कथं देवादीनामवधिज्ञानं भवप्रत्ययमिति व्यपदिश्यते ?, नैष दोषः, यतस्तदपि परमार्थतः क्षायोपशमिकमेव, केवलं स क्षयोपशमो देवनारकभवेव्यवश्यंभावी, पक्षिणां गगनगमनलब्धिरिव, ततो भवप्रत्ययमिति व्यपदिश्यते, उक्तं च चूर्णो - "नणु ओही खाओवसमिए भावे नारगाइभवो से उदइए भावे तओ कहं भवपच्चइओ भण्णइ ?, उच्यते, सोऽवि खओवसमिओ चेव, किंतु सो खओवसमो नारगदेवभवेसु अवस्सं भवइ, को दिट्ठतो ?, पक्खीणं आगासगमणं व, तओ भवपचइओ भन्नइ " ति । तथा द्वयोः क्षायोपशमिकं, तद्यथा-मनुष्याणां च पञ्चेन्द्रियतिर्यग्योनिजा नां च, अत्रापि चशब्दौ प्रत्येकं स्वगतानेकभेदसूचकौ, पञ्चेन्द्रियतिर्यग्मनुष्याणां चावधिज्ञानं नावश्यंभावि, ततः समानेऽपि क्षायोपशमिकत्वे भवप्रत्ययादिदं भिद्यते, परमार्थतः पुनः सकलमप्यवधिज्ञानं क्षायोपशमिकं ॥ सम्प्रति क्षायोपशमि - कस्वरूपं प्रतिपादयति- 'को हेतुः ?' किं निमित्तं यद्वशादवधिज्ञानं क्षायोपशमिकमित्युच्यते ?, अत्र निर्वचनमभिधातुकाम आह - क्षायोपशमिकं येन कारणेन तदावरणीयानाम् - अवधिज्ञानावरणीयानां कर्मणामुदीर्णानां क्षयेण Jain Education International For Personal & Private Use Only भवप्रत्य यत्वे हेतु:. १० १३ www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy