________________
सू. ४
लब्धिरुपयोगश्च, तत्र लब्धिः श्रोत्रेन्द्रियादिविषयः सर्वात्मप्रदेशानां तदावरणकर्मक्षयोपशमः, उपयोगः खखविषये 2 इन्द्रियप्रलब्धिरूपेन्द्रियानुसारेण आत्मनो व्यापारः, इह च द्विविधमपि द्रव्यभावरूपमिन्द्रियं गृह्यते, एकतरस्याप्यभावे
त्यक्षभेदाः है इन्द्रियप्रत्यक्षत्वानुपपत्तेः, तत्र इन्द्रियस्य प्रत्यक्षं इन्द्रियप्रत्यक्षं, नोइन्द्रियप्रत्यक्षं यत् इन्द्रियप्रत्यक्षं न भवति, नो-15 शब्दः सर्वनिषेधवाची, तेन मनसोऽपि कथञ्चिदिन्द्रियत्वाभ्युपगमात्तदाश्रितं ज्ञानं प्रत्यक्षं न भवतीति सिद्धम् ॥ |
से किं तं इंदिअपञ्चक्खं ?, इंदिअपच्चक्खं पंचविहं पण्णत्तं, तंजहा-सोइंदिअपञ्चक्खं चक्खिदिअपचक्खं घाणिंदिअपञ्चक्खं जिभिदिअपच्चक्खं फासिंदिअपञ्चक्खं, से तं इंदिअपच्चक्खं । (सू० ४) || 61 अथ किं तदिन्द्रियप्रत्यक्षं ?, इन्द्रियप्रत्यक्षं पञ्चविधं प्रज्ञसं, तद्यथा-श्रोत्रेन्द्रियप्रत्यक्षमित्यादि, तत्र श्रोत्रेन्द्रियस्य प्रत्यक्षं
श्रोत्रेन्द्रियप्रत्यक्षं, श्रोत्रेन्द्रियं निमित्तीकृत्य यदुत्पन्नं ज्ञानं तत् श्रोत्रेन्द्रियप्रत्यक्षमिति भावः,एवं शेषेष्वपि भावनीयम्।एतच
व्यवहारत उच्यते, न परमार्थत इत्यनन्तरमेव प्रागुक्तम् । आह-स्पर्शनरसनघाणचक्षुःश्रोत्राणीन्द्रियाणीति क्रमः, दाअयमेव च समीचीनः, पूर्वपूर्वलाभ एवोत्तरोत्तरलाभसम्भवात् , ततः किमर्थमुत्क्रमोपन्यासः कृतः ?, उच्यते, अस्ति || पूर्वानुपूर्वी अस्ति पश्चानुपूर्वीति न्यायप्रदर्शनार्थ, अपि च-शेपेन्द्रियापेक्षया श्रोत्रेन्द्रियं पटु, ततः श्रोत्रेन्द्रियस्य यत् । प्रत्यक्षं तच्छेषेन्द्रियप्रत्यक्षापेक्षया स्पष्टसंवेदनं, स्पष्टसंवेदनं चोपवर्ण्यमानं विनेयः सुखेनावबुध्यते, ततः सुखप्रति-13 पत्तये श्रोत्रेन्द्रियादिक्रमः उक्तः ॥
ow
my
Jain Ed
e rational
For Personal & Private Use Only
www.jainelibrary.org