________________
श्रीमलयगिरीया नन्दीवृत्तिः
1104 11
इत्यादिजातिभेदान्नानाविधा, आभ्यन्तरा तु निर्वृत्तिः सर्वेषामपि जन्तूनां समाना, तामेवाधिकृत्यामूनि सूत्राणि प्रावर्त्तिष्यन्त "सोइंदिए णं भंते ! किंसंठाणसंठिए पन्नत्ते ?, गोअमा ! कलंबुयासंठाणसंठिए पन्नत्ते, चक्खिदिए णं भंते! किंसंठाणसंठिए पण्णत्ते ?, गोअमा ! मसूरचंद संठाणसंठिए पण्णत्ते, घाणिंदिए णं भन्ते ! किंसंठाणसंटिए पण्णत्ते ?, गोयमा ! अहमुत्तगसंठाणसंठिए पण्णत्ते, जिम्मिंदिए णं ! किंसंठाणसंठिए पण्णत्ते ?, गोअमा ! खुरप्पसंठाणसंठिए पण्णत्ते, फासिंदिए णं भंते! किंसंठाणसंठिए पण्णत्ते ? गोअमा ! नाणासंठाणसंठिए पण्णत्ते" | इह स्पर्शनेन्द्रिय निर्वृत्तेः प्रायो न बाह्याभ्यन्तरभेदः, तत्त्वार्थमूलटीकायां तथाभिधानात्, उपकरणं खड्गस्थानीयाया बाह्यनिर्वृत्तेर्या खड्गधारासमाना स्वच्छतरपुद्गलसमूहात्मिका अभ्यन्तरा निर्वृत्तिः तस्याः शक्तिविशेषः, इदं चोपकरणरूपं द्रव्येन्द्रियमान्तरनिर्वृत्तेः कथञ्चिदर्थान्तरं, शक्तिशक्तिमतोः कथञ्चिद्भेदात् कथञ्चिद्भेदश्च सत्यामपि तस्यामा - न्तरनिर्वृत्तौ द्रव्यादिनोपकरणस्य विघातसम्भवात् तथाहि - सत्यामपि कदम्बपुष्पाद्याकृतिरूपायामान्तरनिर्वृत्तावतिकठोरतरघनगर्जितादिना शक्त्युपघाते सति न परिच्छेत्तुमीशते जन्तवः शब्दादिकमिति भावेन्द्रियमपि द्विधा -
१ धोत्रेन्द्रियं भदन्त ! किंसंस्थानसंस्थितं प्रज्ञप्तं ?, गौतम ! कलम्बुका ( कदम्बक ) संस्थान संस्थितं प्रज्ञप्तं चक्षुरिन्द्रियं भदन्त ! किंसंस्थानसंस्थितं प्रज्ञप्तं ?" गौतम ! मसूरचन्द्र संस्थान संस्थितं प्रज्ञप्तं, घ्राणेन्द्रियं भदन्त । किंसंस्थानसंस्थितं प्रज्ञप्तं ?, गौतम ! अतिमुक्तक संस्थानसंस्थितं प्रज्ञप्तं, जिह्वेन्द्रियं भदन्त । किंसंस्थानसंस्थितं प्रज्ञप्तं ?, गौतम ! क्षुरप्रसंस्थान संस्थितं प्रज्ञप्तं ?, स्पर्शनेन्द्रियं भदन्त । किं संस्थानसंस्थितं प्रज्ञप्तं ?, गौतम ! नाना संस्थान संस्थितं प्रज्ञप्तं ॥
Jain Education national
For Personal & Private Use Only
द्रव्यभावेन्द्रियख
रूपम्.
१५
२०
11:04 11
२६
www.jainelibrary.org