SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ नापि सूत्रे क्वचिदपि प्रत्यक्षमिति व्यवहृतं, ततो न तत्र कश्चिद्विवादः ॥ तदेवं प्रत्यक्षं परोक्षं चेति भेदद्वयोपन्यासे | कृते सति शिष्योऽनवबुध्यमानः प्रश्नं विधत्ते से किं तं पच्चक्खं ?, पच्चक्खं दुविहं पण्णत्तं, तंजहा- इंदियपच्चक्खं नोइंदियपञ्चक्खं च । (सू० ३) शब्दो मागधदेशीयप्रसिद्धो निपातोऽथशब्दार्थे वर्त्तते, अथशब्दार्थ [द]श्च प्रक्रियाद्यर्थाभिधायी, यत उक्तं"अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलो पन्यासप्रतिवचनसमुच्चयेष्विति, इह चोपन्यासार्थो वेदितव्यः, 'कि' मिति परप्रश्ने, तत्त्रागुपदिष्टं प्रत्यक्ष ( क्षं कि ) मिति ?, एवं शिष्येण प्रश्ने कृते सति न्यायमार्गोपदर्शनार्थमाचार्यः शिष्यपृष्टपदानुवादपुरस्सरीकारेण प्रतिवचनमभिधातुकाम आहे - 'पञ्चकखमित्यादि, एवमन्यत्रापि यथायोगं प्रश्ननिर्वचनसूत्राणां पातनिका भावनीया । प्रत्यक्षं द्विविधं प्रज्ञप्तं, तद्यथा - इन्द्रियप्रत्यक्षं नोइन्द्रियप्रत्यक्षं च तत्र 'इदु पर मैश्वर्ये' 'उदितो न'मिति नम् इन्दनादिन्द्रः - आत्मा सर्वद्रव्योपलब्धिरूपपरमैश्वर्ययोगात्, तस्य लिङ्गं-चिहमविनाभावि इन्द्रियम् 'इन्द्रिय' मितिनिपातनसूत्राद्रूपनिष्पत्तिः, तत् द्विधा-द्रव्येन्द्रियं भावेन्द्रियं च तत्र द्रव्येन्द्रियं द्विधा - निर्वृत्तिरूपकरणं च निर्वृत्तिर्नाम प्रतिविशिष्टः संस्थानविशेषः, सापि द्विधा - बाह्या अभ्यअन्तरा च तत्र बाह्या कर्णपर्पट कादिरूपा, सापि विचित्रान्न प्रतिनियतरूपतयोपदेष्टुं शक्यते, तथाहिमनुष्यस्य श्रोत्रे भ्रूसमे नेत्रयोरुभयपार्श्वतः संस्थिते वाजिनोः मस्तकें नेत्रयोरुपरिष्टाद्भाविनी तीक्ष्णे चाग्रभागे Jain Education International For Personal & Private Use Only इन्द्रियनोइन्द्रियप्र त्यक्षम्. सू. ३ ५ १० १३. www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy