________________
श्रीमलय- गिरीया नन्दीवृत्तिः
१५
रिन्द्रियव्यापारेऽप्यपरं धूमादिकमपेक्ष्यायादिविषयं ज्ञानमुदयते तल्लोके परोक्षं, तत्र साक्षादिन्द्रियव्यापारासम्भवात, ऐन्द्रियकयत्पुनरात्मनः इन्द्रियमप्यनपेक्ष्य साक्षादुपजायते तत्परमार्थतः प्रत्यक्षं, तच्चावध्यादिकं त्रिप्रकार, ततो लोकव्यवहा- सव्यवहार
प्रत्यक्षता. रमधिकृत्येन्द्रियाश्रितं ज्ञानमनन्तरसूत्रे प्रत्यक्षमुक्तं, न परमार्थतः, अथोच्येत-अनन्तरसूत्रे न किमपि विशेषसूचकं। पदमीक्षामहे, ततः कथमिदमवसीयते-संव्यवहारमधिकृत्येन्द्रियाश्रितं ज्ञानं प्रत्यक्षमुक्तं, न परमार्थत इति ?, उच्यते, उत्तरसूत्रार्थपर्यालोचनात् , प्रत्यक्षभेदाभिधानानन्तरं हि सूत्रमाचार्यों वक्ष्यति-'परोक्खं दुविहं पन्नत्तं, तंजहाआभिणिबोहियनाणं सुयनाण'मित्यादि, तत्राभिनिवोधिकमवग्रहादिरूपम् , अवग्रहादयश्च श्रोत्रेन्द्रियाद्याश्रिता वर्णयिष्यति, तद्यदि श्रोत्रादीन्द्रियाश्रितं ज्ञानं परमार्थतः प्रत्यक्षं तत्कथमवग्रहादयः परोक्षज्ञानत्वेनाग्रेऽभिधीयन्ते ?, २० तस्मादुत्तरत्रेन्द्रियाश्रितज्ञानस्य परोक्षत्वेनाभिधानादवसीयते-अनन्तरसूत्रेणोच्यमानमिन्द्रियाश्रितं ज्ञानं व्यवहारप्रत्यक्षमुक्तं, न परमार्थत इति स्थितं, आह च–“एंगतेण परोक्खं लिंगियमोहाइयं च पञ्चक्खं । इंदियमणोभवं जं तं संववहारपञ्चक्खं ॥ १॥” अकलङ्कोऽप्याह-"द्विविधं प्रत्यक्षज्ञान-सांव्यवहारिकं मुख्यं च, तत्र सांव्यवहारिकमि-8॥७४ ॥ |न्द्रियानिन्द्रियप्रत्यक्षं, मुख्यमतीन्द्रियज्ञान"मिति, केवलमनोमात्रनिमित्तं श्रुतज्ञानं च लोकेऽपि परोक्षमिति प्रतीतं.
१ एकान्तेन परोक्षं लैक्षिकमवध्यादिकं च प्रत्यक्षम् । इन्द्रियमनोभवं यत् तत् संव्यवहारप्रत्यक्षम् ॥ १ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org