SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ऐन्द्रियकस्य परो क्तम्, अभ्यासदशामापन्नस्यापि साक्षादनवबोधात् , तस्यापीन्द्रियद्वारेणावबोधप्रवृत्तेरवश्यमिन्द्रियसाद्गुण्यापेक्षणात्, केवलमभ्यासप्रकर्षवशात्तदिन्द्रियसाद्गुण्यं झटित्येवावधारयति, पूर्वावधृतं च झटित्येव निश्चिनोति, ततः कालसौ-18 क्ष्म्यात्तन्नोपलभ्यते, इत्थं चैतदङ्गीकर्त्तव्यम्, यतोऽवश्यमवायज्ञानमवग्रहेहापूर्व, ईहा च विचारणात्मिका, विचारथेन्द्रियसाद्गुण्यसद्भूतवस्तुधर्माश्रितः, अन्यथैकतरविचाराभावेऽवायज्ञानस्य सम्यग्ज्ञानत्वायोगात्, न खल्विन्द्रिये । वस्तुनि वा सम्यगविचारितेऽवायज्ञानं समीचीनं भवति, ततोऽभ्यासदशापन्नेऽपीन्द्रियसागण्यावधारणमवसेयं, यदपि चोक्तम्-'न खलु देवदत्तो हस्तेन भुञ्जानो हस्तव्यापारव्यवहितत्वात्साक्षान्न भोक्तेति व्यपदेष्टुं शक्यमिति' तदप्य युक्तं, दृष्टान्तदान्तिकार्थवैषम्याद, भोक्ता हि भुजिक्रियानुभवभागी भण्यते, भुजिक्रियाऽनुभवश्च देवदत्तस्य न । हस्तेन व्यवधीयते, किन्तु साक्षात्, हस्तो हि कवलप्रक्षेप एव व्याप्रियते न परिच्छेदक्रियायामिन्द्रियमिवाहा रक्रियानुभवेऽपि येन व्यवधानं भवेत् , ततः साक्षाद्देवदत्तो भोक्तेति व्यवहियते, इह तु वस्तूनामुपलब्धिरुक्तनीत्या : चक्षुरादीन्द्रियसाद्ण्यावगमानुसारेणोपजायते, ततो व्यवधानान्न साक्षादुपलम्भक आत्मेति । नन्विदं सर्वमप्युत्सूत्रप्ररूपणं, सूत्रे घनन्तरमेवेन्द्रियाश्रितं ज्ञानं प्रत्यक्षमुपदेश्यते–'पञ्चक्खं दुविहं पन्नत्तं, तंजहा-इंदियपञ्चक्खं नोइंदियपचक्खं चेति सत्यमेतत्, किन्त्विदं लोकव्यवहारमधिकृत्योक्तं, न परमार्थतः, तथाहि-यदिन्द्रियाश्रितमपरव्यवधानरहितं ज्ञानमुदयते तल्लोके प्रत्यक्षमिति व्यवहृतं, अपरधूमादिलिङ्गनिरपेक्षतया साक्षादिन्द्रियमधिकृत्य प्रवर्तनात्, यत्पुन ASSASSIUS 15545 MY dain Education international For Personal & Private Use Only ww.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy