________________
श्रीमलयगिरीया नन्दीवृत्तिः
॥ ७३ ॥
प्रति करणतया व्यवधायकत्वायोगात्, न खलु देवदत्तो हस्तेन भुआनो हस्तव्यापारव्यवहितत्वात् साक्षान्न भोक्तेति व्यपदेष्टुं शक्यम्, तदेतदसमीचीनं, सम्यग्वस्तुतत्त्वापरिज्ञानात्, इह हि यदाऽऽत्मा चक्षुरादिकमपेक्ष्य बाह्यमर्थमवबुध्यते तदाऽवश्यं चक्षुरादेः सागुण्याद्यपेक्षते, तथाहि - यदा सद्गुणं चक्षुः तदा वाह्यमर्थ स्पष्टं यथावस्थितं चोपलभते, | यदा तु तिमिराशुभ्रमणनौयानपित्तादिसंक्षोभ देशदवीय स्ताद्यापादितविभ्रमं तदा विपरीतं संशयितं वा, ततोऽवश्यमात्मा अर्थोपलब्धी पराधीनः तथा च सति यथा राजा निजराजदौवारिकेणोपदर्शितं परराष्ट्रराजकीयं पुरुषं पश्यन्नपि समीचीनमसमीचीनं वा निजराजदौवारिकवचनत एव प्रत्येति न साक्षात्, तद्वदात्मापि चक्षुरादिनोपदर्शितं वाह्यमर्थ चक्षुरादिप्रत्ययत एवं समीचीनमसमीचीनं वा वेत्ति, न साक्षात्, तथाहि - चक्षुरादिना दर्शितेऽपि बाह्येऽर्थे यदि संशयमधिरूढो भवति तर्हि चक्षुरादिसाद्गुण्यमेव प्रतीत्य निश्चयं विदधाति, यथा न मे चक्षुस्तिमिरोपप्लुतं, न नौयानाशुभ्रमणाद्यापादितविभ्रमं, ततोऽयमर्थः समीचीन इति, ततो यथा राज्ञो नायं मम राजदौवारिकोऽसत्यालापी कदाचनाप्यस्य व्यभिचारानुपलम्भादिति निजदौवारिकस्य साद्गुण्यमवगम्य परराष्ट्र राजकीयपुरुषसमीचीनतावधारणं परमार्थतः परोक्षं तद्वदात्मनोऽपि चक्षुरादिसागुण्यावधारणतो वस्तुयाथात्म्यावधारणं परमार्थतः परोक्षं, नन्विदमिन्द्रियसाद्गुण्यावधारणतो वस्तुयाथात्म्यावधारणमनभ्यासदशामापन्न स्योपलभ्यते नाभ्यासदशामुपागतस्य, अभ्यासदशामापन्नो ह्यभ्यासप्रकर्षसामर्थ्यादिन्द्रियसागुण्यमनपेक्ष्यैव साक्षादवबुध्यते, ततस्तस्येन्द्रियाश्रितं ज्ञानं कथं प्रत्यक्षं न भवति ?, तदयु -
Jain Education rational
For Personal & Private Use Only
इन्द्रिय
साद्गुण्या
ज्ज्ञानम्.
१५
२०
॥ ७३ ॥
२६
www.jainelibrary.org