________________
आत्मनो द्रष्टुत्वम्।
DISSSSSSSSSS
मा भूचक्षुषोऽपगमः तथापि यदि चक्षुरेव द्रष्टु ततः स्मरणमात्मनो न भवेत् , अन्येनानुभूतेऽर्थेऽन्यस्य स्मरणायो- गात्, भवति च स्मरणमात्मनः चक्षुषः स्मर्तृत्वेनाप्रतीतेरनभ्युपगमाच्च, तस्मादात्मैवोपलब्धा नेन्द्रियमिति । तथा चात्र प्रयोगः-यो येषूपरतेष्वपि तदुपलब्धानर्थान् स्मरति स तत्रोपलब्धा, यथा गवाक्षोपलब्धानामर्थानामनुस्मर्त्ता 8 देवदत्तः, अनुस्मरति च द्रव्येन्द्रियोपलब्धानर्थान् द्रव्येन्द्रियापगमेऽप्यात्मा, इह स्मरणमनुभवपूर्वकतया व्याप्तं, व्या-| प्यव्यापकभावश्चानुभवस्मरणयोः प्रत्यक्षेणैव प्रतिपन्नः, तथाहि-योऽर्थोऽनुभूतः स स्मयते न शेषः, तथा खसंवेदनप्रत्यक्षेण प्रतीतेः, विपक्षे चातिप्रसङ्गो बाधकं प्रमाणं, अननुभूतेऽपि विषये यदि स्मरणं भवेत् ततोऽननुभूतत्वा-| |विशेषात् खरविषाणादेरपि स्मरणं भवेदित्यतिप्रसङ्गः, तस्मात् द्रव्येन्द्रियापगमेऽपि तदुलब्धार्थानुस्मरणादात्मा उप-19 |लब्धेति स्थितं, उक्तं च-"केसिंचि इंदियाई अक्खाई तदुवलद्धि पचक्खं । तन्नो ताइं जमचेयणाइं जाणंति न घडोव ॥ १॥ उवलद्धा तत्थाया तविगमे तदुवलद्धसरणाओ। गेहगवक्खोवरमेवि तदुवलद्धाणुसरिया वा ॥ २॥" अत्र वाशब्द उपमार्थः । अपरे पुनराहुः-न वयमिन्द्रियाणामुपलब्धृत्वं प्रतिजानीमहे, किन्त्वेतदेव ब्रूमो-यदिन्द्रियद्वारेण ॐ प्रवर्तते ज्ञानमात्मनि तत्प्रत्यक्षं, न चेन्द्रियव्यापारव्यवहितत्वादात्मा साक्षान्नोपलब्धेति वक्तव्यम् , इन्द्रियाणामुपलब्धि
GARCARRIE
१ केषांचिदिन्द्रियाणि अक्षाणि तदुपलब्धिः प्रत्यक्षम् । तन्न तानि यदचेतनानि जानन्ति न घट इव ॥१॥ अलब्धा तत्रात्मा तद्विगमे तदुपलब्धस्मरणात् । गृहगवाक्षोपरमेऽपि तदुपलब्धानुस्मती इव ॥२॥
tai
nemalonal
For Personal & Private Use Only
www.jainelibrary.org