________________
&दात्मनो, धूमादग्निज्ञानमिव, तत्परोक्षम् , उभयत्रापि इन्द्रियमनोनिमित्तं ज्ञानमभिधेयम् । आह-इन्द्रियमनोनि-12
मित्ताधीनं कथं परोक्षम् ?, उच्यते, पराश्रयत्वात् , तथाहि-पुद्गलमयत्वाद्रव्येन्द्रियमनांस्यात्मनः पृथग्भूतानि, ततः । कस्य पतदाश्रयेणोपजायमानं ज्ञानमात्मनो न साक्षात् , किन्तु परम्परया, इतीन्द्रियमनोनिमित्तं ज्ञानं धूमादग्निज्ञानमिव
रोक्षता परोक्षं, उक्तं च-"अक्खस्स पोग्गलमया जं दविंदियमणा परा होति । तेहिंतो जं नाणं परोक्खमिह तमणमाणं व ॥१॥" अत्र वैशेषिकादयः प्राहुः–'नन्वक्षमिन्द्रियं श्रोतो हृषीकं करणं स्मृतं,' ततोऽक्षाणाम्-इन्द्रियाणां या साक्षादुपलब्धिः सा प्रत्यक्षं, अक्षम्-इन्द्रियं प्रति वर्तते इति प्रत्यक्षव्युत्पत्तेः, तथा च सति सकललोके प्रसिद्ध साक्षादिन्द्रियाश्रितं घटादि ज्ञानं प्रत्यक्षमिति सिद्धं, तदेतदयुक्तम् , इन्द्रियाणामुपलब्धृत्वासम्भवात् , तदसंभवश्वाचे-14 तनत्वात् , तथा चात्र प्रयोगः-यदचेतनं तन्नोपलब्धू, यथा घटः, अचेतनानि च द्रव्येन्द्रियाणि, न चायमसिद्धो हेतुः,
यतो नाम द्रव्येन्द्रियाणि निवृत्त्युपकरणरूपाणि, 'निर्वृत्त्युपकरणे द्रव्येन्द्रियमिति(त०अ०२-सू०१७)वचनात् , निवृत्त्यु-18 लापकरणे च पुद्गलमये, यथा चानयोः पुद्गलमयता तथाऽग्रे वक्ष्यते, पुद्गलमयं च सर्वमचेतनं, पुद्गलानां काठिन्यानवबो-1|१०
धरूपतया चैतन्यं प्रति धर्मित्वायोगात् , धर्मानुरूपो हि सर्वत्रापि धर्मी, यथा काठिन्यं प्रति पृथिवी, यदि पुनरनुरूप-12 त्वाभावेऽपि धर्मधमिभावो भवेत् ततः काठिन्यजलयोरपि स भवेत् , न च भवति तस्मादचेतनाः पुद्गलाः, उक्तं च
१ अक्षस्य पुद्गलमयानि यगव्येन्द्रियमनांसि पराणि भवन्ति । तेभ्यो यज्ज्ञानं परोक्षमिह तद् अनुमानमिव ॥१॥
Jain E
alidanternational
For Personal & Private Use Only
www.jainelibrary.org