________________
मत्यादिक्रमस्थापना.
तान्येव मतिश्रुतावधिज्ञानानि मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानानि भवन्ति, उक्तं च-"आद्यत्रयमज्ञानमपि भवति मि. थ्यात्वसंयुक्त"मिति, तथा य एव मतिश्रुतज्ञानयोः खामी स एवावधिज्ञानस्यापि, तथा विभङ्गज्ञानिनविदा सम्यग्दर्शनावाप्तौ युगपदेव मतिश्रुतावधिज्ञानानां लाभसम्भवः ततो लाभसाधर्म्यम् । अवधिज्ञानानन्तरं च छद्मस्थवि-1 षयभावप्रत्यक्षत्वसाधात् मनःपर्यायज्ञानमुक्तं,तथाहि-यथाऽवधिज्ञानं छद्मस्थस्य भवति तथा मनःपर्यवज्ञानमपीति छ-13 अस्थसाधय, तथा यथाऽवधिज्ञानं रूपिद्रव्यविषयं तथा मनःपर्यायज्ञानमपि, तस्य मनःपुद्गलालम्बनत्वादिति विषयसाधर्म्य,तथा यथाऽवधिज्ञानं क्षायोपशमिके भावे वर्त्तते तथा मनःपर्यायज्ञानमपीति भावसाधर्म्य, यथा चावधिज्ञानं प्रत्यक्षं तथा मनःपर्यायज्ञानमपीति प्रत्यक्षत्वसाधर्म्यम् , उक्तं च-"कालविवजयसामित्तलाभसाहम्मओऽवही तत्तो। माणसमित्तो छउमत्थविसयभावाइसाहम्मा॥१॥"तथा मनःपर्यायज्ञानानन्तरं केवलज्ञानस्योपन्यासः सर्वोत्तमत्वादप्रम-15 त्यतिखामिसाधर्म्यात् सर्वावसाने लाभाच, तथाहि-सर्वाण्यपि मतिज्ञानादीनि ज्ञानानिदेशतः परिच्छेदकानि, केवलज्ञानं तु सकलवस्तुस्तोमपरिच्छेदकं, सर्वोत्तमं सर्वोत्तमत्वाचान्ते सर्वशिरःशिखरकल्पं उपन्यस्तं, तथा यथा मनःपया-12 यज्ञानमप्रमत्तयतेरेवोदयते तथा केवलज्ञानमप्यप्रमादभावमुपगतस्यैव यतेर्भवति, नान्यस्य, ततोऽप्रमत्तयतिसाधये, यथा यः सर्वाण्यपि ज्ञानानि समासादयितुं योग्यः स नियमात् सर्वज्ञानावसाने केवलज्ञानमवाप्नोति, ततः सर्वान्ते
| १ कालविपर्ययखामिखलामसाधर्म्यतोऽवधिः ततः । मनःपर्यायं इतः छद्मस्थ विषयभावादिसाधात् ॥१॥
१३
dain Educ
a
tional
For Personal & Private Use Only
www.jainelibrary.org