________________
श्रीमलयगिरीया नन्दीवृत्तिः
GESCHOSSEISUSTA
तथाहि-सर्वत्रापि पूर्वमवग्रहादिरूपं मतिज्ञानमुदयते पश्चाच्छ्रुतं, तथा चोक्तं चूर्णावपि-"तेसुऽवि य मइपुव्वयंमत्यादिसुयंतिकिच्चा पुव्वं मइणाणं कयं, तस्स पिट्ठओ सुयं" ति । नन्वेते मतिश्रुते सम्यक्त्वोत्पादकाले युगपदुत्पत्तिमासा- क्रमस्थादयतः, अन्यथा मतिज्ञानभावेऽपि श्रुताज्ञानभावप्रसङ्गः, स चानिष्टः, तथा मिथ्यात्वप्रतिपत्तौ युगपदेव चाज्ञा-13 पना. नरूपतया परिणमतः, ततः कथं मतिपूर्व श्रुतमुद्गीयते ?, उक्तं च-"णाणाणऽण्णाणाणि य समकालाई जओ
१५ मइसुयाई । तो न सुयं मइपुवं मइनाणे वा सुयअन्नाणं ॥१॥" नैष दोषो, यतः सम्यक्त्वोत्पत्तिकाले समकालं |मतिश्रुते लब्धिमात्रमेवाङ्गीकृत्य प्रोच्यते, न तूपयोगम् , उपयोगस्य तथाजीवखाभाव्यतः क्रमेणैव सम्भवात्, मतिपूर्व च श्रुतमुच्यते उपयोगापेक्षया, न खलु मत्युपयोगेनासञ्चिन्य श्रुतग्रन्थानुसारि विज्ञानमासादयति जन्तुः, ततो न कश्चिद्दोषः, आह च भाष्यकृत्-"इह लद्धिमइसुयाइं समकालाई न तूवगोओ सिं । मइपुवं सुयमिह पुण सुओवओगो मइप्पभवो ॥१॥"। तथा कालविपर्ययखामित्वलामसाधर्म्यात् मतिश्रुतानन्तरमवधिज्ञानमुक्तं, तत्र प्रवाहापेक्षया अप्रतिपतितैकसत्त्वाधारापेक्षया यावान् मतिश्रुतयोः स्थितिकालः तावानेवावधिज्ञानस्यापि, तथा 31 यथैव मतिश्रुते ज्ञाने मिथ्यादर्शनोदयतो विपर्ययरूपतामासादयतः तथाऽवधिज्ञानमपि, तथाहि-मिथ्यादृष्टेः सतः
C
॥७०
॥
१ तयोरपि च मतिपूर्वकं श्रुतमितिकृत्वा पूर्व मतिज्ञानं कृतं तस्य पृष्ठतः श्रुतमिति । २ ज्ञाने अज्ञाने च समकाले यतो मतिश्रुते । ततो न श्रुतं मतिपूर्व मतिज्ञाने वा श्रुताज्ञानम् ॥ १॥ ३ इह लब्धितो मतिश्रुते समकाले न तूपयोगोऽनयोः । मतिपूर्वं श्रुतमिह पुनः श्रुतोपयोगो मतिप्रभवः ॥१॥
२६ .
Jain Education Intematonal
For Personal & Private Use Only
himljainelibrary.org