SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ देकत्र वक्तव्ये, परस्परमनयोः खामिकालकारणविषय परोक्षत्वसाधर्म्यात्, तथाहि-य एव मतिज्ञानस्य स्वामी स एव श्रुतज्ञानस्यापि ' जत्थं मइनाणं तत्थ सुयनाणं, जत्थ सुयनाणं तत्थ मइनाण' मित्यादिवक्ष्यमाणवचनप्रामाण्यात् ततः स्वामिसाधर्म्य, तथा यावानेव मतिज्ञानस्य स्थितिकालस्तावानेव श्रुतज्ञानस्यापि तत्र प्रवाहापेक्षया अतीतानागतवर्त्तमानरूपः सर्व एव कालः, अप्रतिपतितैकजीवापेक्षया तु पट्षष्टिसागरोपमाणि समधिकानि, उक्तं च" दो वारे विजयाइसु गयस्स तिन्नचुए अहव ताई । अइरेगं नरभवियं नाणाजीवाण सङ्घद्धा ॥ १ ॥” इति कालसाधर्म्य, यथेन्द्रियनिमित्तं मतिज्ञानं तथा श्रुतज्ञानमपीति कारणसाधर्म्यम् तथा यथा मतिज्ञानमादेशतः सर्व्वद्रव्यादिविषयमेवं श्रुतज्ञानमपीति विषयसाधर्म्यम्, यथा च मतिज्ञानं परोक्षं तथा श्रुतज्ञानमपि परोक्षं, परोक्षता चानयोर स्वयमेव सूत्रकृता वक्ष्यते इति परोक्षत्वसाधर्म्यम्, तत इत्थं खाम्यादिसाधर्म्यदेव मतिश्रुते नियमादेकत्र वक्तव्ये, ते चावध्यादिज्ञानेभ्यः प्रागेव तद्भाव एवावध्यादिज्ञानसद्भावात् उक्तं च- "जं सामिकालकारणविसयपरोक्खत्तणेहिं तुलाई । तब्भावे सेसाणि य तेणाईए मइसुयाई ॥ १ ॥ " ननु भवतामेकत्र मतिश्रुते प्रागेव चावध्यादिभ्यः, परमेतयोरेव मतिश्रुतयोर्मध्ये पूर्व मतिः पश्चात् श्रुतमित्येतत्कथम् ?, उच्यते मतिपूर्वकत्वात् श्रुतज्ञानस्य, १ यत्र मतिज्ञानं तत्र श्रुतज्ञानं यत्र श्रुतज्ञानं तत्र मतिज्ञानं । २ द्वौ वारौ विजयादिषु गतस्य त्रीन् अच्युतेऽथवा तानि । अतिरिक्तं नरभविकं नानाजीवानां सर्वद्वा ॥ १ ॥ ३ यत् खामि कालकारणविषयपरोक्षत्वैः तुल्ये । तद्भावे शेषाणि च तेनादौ मतिश्रुते ॥१॥ Jain Education International For Personal & Private Use Only मत्यादि - क्रमस्था पना. ५ १० १३ www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy