________________
श्रीमलयगिरीया नन्दीवृत्तिः
मत्यादीनामात्मभूतत्वम्
॥६९॥
ROSASSASSISTANCE
पशमजनितःश्रुतज्ञानमित्यादि, ततः आत्मखभावभूताज्ञानस्वामिनिबोधिकादयो भेदाः,ते च प्रवचनोपदर्शितपरिस्थूरनिमित्तभेदतः पञ्चसङ्ख्याः ,ततस्तदपेक्षमावारकमपि पञ्चधोपवर्ण्यमानं न विरुध्यते, न चैवमात्मखभावभूतत्वे क्षीणावरणस्यापि तद्भावप्रसङ्गो, यत एते मतिज्ञानावरणादिक्षयोपशमरूपोपाधिसम्पादितसत्ताकाः, यथा सूर्यस्य घनपटलावृतस्य मन्दप्रकाशभेदाः कटकुड्याद्यावरणविवरभेदोपाधिसम्पादिताः, ततः कथं ते तथारूपक्षयोपशमाभावे भवितुमर्हन्ति !, नखलु सकलघनपटलकटकुड्याद्यावरणापगमे सूर्यस्य ते तथारूपा मन्दप्रकाशभेदा भवन्ति, उक्तं च-"कडविवरागयकिरणा मेहंतरियस्स जह दिणेसस्स । ते कडमेहावगमे न होंति जह तह इमाइंपि ॥१॥” ततो यथा जन्मादयो भावा जीवस्यात्मभूता अपि कर्मोपाधिसम्पादितसत्ताकत्वात् तदभावे न भवन्ति, तद्वदाभिनिबोधिकादयोऽपि भेदा ज्ञानस्यात्मभूता अपि मतिज्ञानावरणादिकर्मक्षयोपशमसापेक्षत्वात् तदभावे केवलिनो न भवन्ति, ततो नासवज्ञत्वदोषभावः, उक्तं च-"जैमिह छउमत्थधम्मा जम्माईया न होति सिद्धाणं । इय केवलीणमाभिणिबोहाभामि को दोसो ? ॥१॥” इति । पर आह-प्रपन्ना वयमुक्तयुक्तितो ज्ञानस्य पञ्चभेदत्वं, परममीपां भेदानामित्थमुपन्यासे किश्चिदस्ति प्रयोजनमुत यथाकथञ्चिदेष प्रवृत्तः ?, अस्तीति ब्रूमः, किं तदिति चेद् , उच्यते, इह मतिश्रुते ताव
१ कट विवरागताः किरणा मेघान्तरितस्य यथा दिनेशस्य । ते कटमेघापगमे न भवन्ति यथा तथेमान्यपि ॥१॥ २ यविह छग्रस्थधर्माणो जन्मादिका न भवन्ति सिद्धानाम् । इति केवलिनामाभिनिबोधिकाभावे को दोषः ॥१॥
२६
dain Education Interation
For Personal & Private Use Only
www.jainelibrary.org