SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ज्ञानस मेदपञ्चकसिद्धि. टिमधिकत्य व्यवस्थापितो ज्ञानस्य भेदः, ततस्तदपेक्षमावारकमपि तथा भिद्यमानं न युष्माशदर्जनवचनीयतामास्कन्दति । एवमुत्तेजितो भूयः सावष्टम्भं परः प्रश्नयति-ननु परिस्थूरनिमित्तभेदव्यवस्थापिता अप्यमी आभिनिबोधिकादयो भेदा ज्ञानस्यात्मभूता उतानात्मभूताः किश्चातः१, उभयथापि दोषः, तथाहि-यद्यात्मभूतास्ततः क्षीणावरणेऽपि नावप्रसङ्गः, तथा चासर्वज्ञत्वं प्रागुक्तनीत्या तस्यापद्यते, अथानात्मभूतास्तर्हि न ते पारमार्थिकाः, कथमावार्यापेक्षो वास्तव आवारकभेदः?, तदपि न मनोरम, सम्यक् वस्तुतत्त्वापरिज्ञानाद, इह हि सकलघनपटलविनिर्मुक्तशारददिनमणिरिव समन्ततः समस्तवस्तुस्तोमप्रकाशनकखभावो जीवः, तस्य च तथाभूतः स्वभावः केवलज्ञानमिति व्यपदिश्यते, स च यद्यपि सर्वघातिना केवलज्ञानावरणेनानियते तथापि तस्यानन्ततमो भागो नित्योद्घाटित एव "अक्खरस्स अणंतो भागो निच्चुग्घाडिओ, जइ पुण सोऽवि आवरिजा तेणं जीवो अजीवत्तणं पाविजा" इत्यादि वक्ष्यमाणप्रवचनप्रामाण्यात्, ततस्तस्य केवलज्ञानावरणावृतस्य घनपटलाच्छादितस्येव सूर्यस्य यो मन्दः प्रकाशः सोऽपान्तरालावस्थितमतिज्ञानाद्यावरणक्षयोपशमभेदसम्पादितं नानात्वं भजते, यथा घनपटलावृतसूर्यमन्दप्रकाशोऽपान्तरालावस्थितकटकुड्याद्यावरणविवरप्रदेशभेदतः, स च नानात्वं क्षयोपशमानुरूपं तथा तथा प्रतिपद्यमानः खखक्षयोपशमानुसारेणाभिधानभेदमश्नुते, यथा मतिज्ञानावरणक्षयोपशमजनितः स मन्दप्रकाशो मतिज्ञानं, श्रुतज्ञानावरणक्षयो SHASRANASASSSS १ अक्षरस्यानन्ततमो भागो नियोद्घाटितः, यदि पुनः सोऽप्यानियेत तेन जीवोऽजीवत्वं प्राप्नुयात् ॥ sain Education www.jainelibrary.org For Personal & Private Use Only rational
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy