________________
ज्ञितमिति द्वावेव भेदौ, उक्तं च- 'तम्हा अवग्गहाओ आरम्भ इहेगमेव नाणन्ति । जुत्तं छउमत्थस्सा सगलं इयरं च कवेलिणो ॥ १ ॥' अत्र प्रतिविधीयते, तत्र यत्तावदुक्तं- 'सकलमपीदं ज्ञानं ज्ञत्येकस्वभावत्वाविशेषे किंकृत एष आभिनिबोधादिको भेद इति ?' तत्र ज्ञत्येकस्वभावता किं सामान्यतो भवताऽभ्युपगम्यते विशेषतो वा १, तत्र न तावदाद्यः पक्षः क्षितिमाधत्ते, सिद्धसाध्यतया तस्य बाधकत्वायोगात्, बोधस्वरूपसामान्यापेक्षया हि सकलमपि ज्ञानमस्माभिरेकमभ्युपगम्यत एव ततः का नो हानिरिति । अथ द्वितीयपक्षः, तदयुक्तम्, असिद्धत्वात् न हि नाम | विशेषतो विज्ञानमेकमेवोपलभ्यते, प्रतिप्राणि स्वसंवेदन प्रत्यक्षेणोत्कर्षापकर्षदर्शनात्, अथ यद्युत्कर्षापकर्ष मात्र भेददर्शनात् | ज्ञानभेदः तर्हि तावुत्कर्षापकर्षो प्रतिप्राणि देशकालाद्यपेक्षया शतसहस्रशो भिद्येते, ततः कथं पञ्चरूपता?, नैष दोषः, परिस्थूरनिमित्तभेदतः पञ्चधात्वस्य प्रतिपादनात् तथाहि - सकलघातिक्षयो निमित्तं केवलज्ञानस्य मनःपर्यायज्ञानस्य त्वामर्षौषध्यादिलच्ध्युपेतस्य प्रमादलेशेनाप्यकलङ्कितस्य विशिष्टो विशिष्टाध्यवसायानुगतोऽप्रमादः 'तं' संजयस्स सवप्प| मायरहियस्स विविहरिद्धिमतो' इति वचनप्रामाण्याद्, अवधिज्ञानस्य पुनः तथाविधानिन्द्रियरूपिद्रव्यसाक्षादवगमनि| बन्धनः क्षयोपशमविशेषः, मतिश्रुतज्ञानयोस्तु लक्षणभेदादिकं, तच्चाग्रे वक्ष्यते, उक्तं च-"नत्तेगसहावत्तं ओहेण विसेसओ
१ तस्मादवग्रहादारभ्य इहैकमेव ज्ञानमिति । युक्त छद्मस्थस्यासकलमितरच केवलिनः ॥ १ ॥ २ तत् संयतस्य सर्वप्रमादरहितस्य विविधर्धिमतः ॥ ३ इत्येकखभावत्वमोथेन विशेषतः पुनरसिद्धम् । एकान्ततत्स्वभावत्वात् कथं हानिवृद्धी ॥ १ ॥ यद् अविचलितस्वभावे तत्त्वे एकान्ततत्स्वभावलम् । न च तत् तथोपलभ्यते उत्कर्षापकर्ष विशेषात् ॥ २ ॥
Jain Educational
For Personal & Private Use Only
१४
www.jainelibrary.org