________________
ज्ञानस्थ भेदपत्रकसिद्धि
सण्यपि केवलज्ञानेऽपि विद्यन्ते, अन्यथा केवलज्ञानेन तेषामग्रहणप्रसङ्गाद् , अविषयत्वात् , तथा च सति के-3 वलिनोऽप्यसर्वज्ञत्वप्रसङ्गः, आभिनिवोधिकादिज्ञानचतुष्टयविषयजातस्य तेनाग्रहणात्, न चैतदिधमिति. अयोध्येतप्रतिपत्तिप्रकारभेदत आभिनिवोधिकादिभेदः, तथाहि-न यादृशी प्रतिपत्तिराभिनिबोधिकज्ञानस्य तादृशी श्रुतज्ञानस्य किन्त्वन्यादृशी, एवमवध्यादिज्ञानानामपिप्रतिपत्तव्यम् , ततो भवत्येव प्रतिपत्तिभेदतो ज्ञानभेदः, तदप्ययुक्तम् , एवं सत्येकस्मिन्नपि ज्ञानेऽनेकभेदप्रसक्तः, तथाहि-तत्तद्देशकालपुरुषखरूपभेदेन विविच्यमानमेकैकं ज्ञानं प्रतिपत्ति-13
प्रकारानन्त्यं प्रतिपद्यते, तन्नैपोऽपि पक्षः श्रेयान् , स्यादेतद्-अस्त्यावारकं कर्म, तचानेकप्रकारं, ततः तद्भेदात् तदावार्य है है। ज्ञानमप्यनेकतांप्रतिपद्यते, ज्ञानावारकं च कर्म पञ्चधा, प्रज्ञापनादौ तथाऽभिधानात् , ततो ज्ञानमपि पञ्चधा प्ररूप्यते,
तदेतदतीव युक्त्यसङ्गतं, यत आवार्यापेक्षमावारकमत आवार्यभेदादेव तद्भेदः, आवार्य च ज्ञसिरूपापेक्षया सकल-13 मप्येकरूपं, ततः कथमावारकस्य पञ्चरूपता ?, येन तद्भेदात् ज्ञानस्यापि' पञ्चविधो भेद उद्गीर्येत, अथ स्वभावत 8
एवाभिनिवोधिकादिको ज्ञानस्य भेदो, न च खभावः पर्यनुयोगमश्नुते, न खलु किं दहनो दहति नाकाशमिति कोहै ऽपि पर्यनुयोगमाचरति, अहो महती महीयसो भवतः शेमुपी, ननु यदि खभावत एवाभिनिवोधादिको ज्ञानस्य
भेदस्तर्हि भगवतः सर्वज्ञत्वहानिप्रसङ्गः, तथाहि-ज्ञानमात्मनो धर्मः, तस्य चाभिनिबोधादिको भेदः खभावत एव । व्यवस्थितः, क्षीणावरणस्यापि तद्भावप्रसङ्गः, सति च तद्भावेऽस्मादृशस्येव भगवतोऽप्यसर्वज्ञत्वमापद्यते, केवलज्ञान
Jain Education Intemanona
For Personal & Private Use Only
www.jainelibrary.org