________________
श्रीमलय
हूँ नाद्यापि निखिलकर्ममलापगमः तावद्यथा यथा देशतः कर्ममलोच्छेदः तथा तथा देशतः तस्य विज्ञप्तिरुज्जृम्भते, सा ज्ञानपश्च. गिरीया च क्वचित्कदाचित्कथञ्चिदित्यनेकप्रकारा, उक्तं च-“मलविद्धमणेर्व्यक्तिर्यथाऽनेकप्रकारतः । कर्मविद्धात्मविज्ञ- कसिद्धिः नन्दीवृत्तिः
प्तिस्तथाऽनेकप्रकारतः ॥ १॥" सा चानेकप्रकारता मतिश्रुतादिभेदेनावसेया, ततो यथा मरकतादिमणेरशेषमला-15/१५ पगमसम्भवे समस्तास्पष्टदेशव्यक्तिव्यवच्छेदेन परिस्फुटरूपैकाऽभिव्यक्तिरुपजायते तद्वदात्मनोऽपि ज्ञानदशन_रि-14
प्रभावतो निःशेषावरणप्रहाणादशेषज्ञानव्यवच्छेदेनैकरूपा अतिस्फुटा सर्ववस्तुपर्यायसाक्षात्कारिणी विज्ञप्तिरुलसति, तथा चोक्तम्-“यथा जात्यस्य रत्नस्य, निःशेषमलहानितः। स्फुटैकरूपाऽभिव्यक्तिर्विज्ञप्तिस्तद्वदात्मनः॥१॥" ततो मत्यादिनिरपेक्षं केवलज्ञानं, अथवा शुद्धं केवलं, तदावरणमलकलङ्कस्य निःशेषतोऽपगमात् , सकलं वा केवलं, प्रथमत एवाशेषतदावरणापगमतः सम्पूणोत्पत्तेः, असाधारणं वा केवलमनन्यसदृशत्वात् , अनन्तं वा केवलं ज्ञेयान-1 न्तत्वात् , केवलं च तज्ज्ञानं च केवलज्ञानं ५॥ ननु सकलमपीदं ज्ञानं ज्ञप्त्येकखभावं, ततो ज्ञत्येकखभावत्वाविशेषे किंकृत एष आभिनिबोधकादिभेदो?, ज्ञेयभेदकृत इति चेत् , तथाहि-वार्तमानिकं वस्त्वाभिनिवोधिकज्ञानस्य
॥६६॥ |ज्ञेयं, त्रिकालसाधारणः समानपरिणामो धनिर्गोचरः श्रुतज्ञानस्य, रूपिद्रव्याण्यवधिज्ञानस्य, मनोद्रव्याणि मनः-18 पर्यायज्ञानस्य, समस्तपर्यायान्वितं सर्व वस्तु केवलज्ञानस्य, तदेतदसमीचीनम् , एवं सति केवलज्ञानस्य भेदवा-141 हुल्यप्रसक्तेः, तथाहि-ज्ञेयभेदात् ज्ञानस्य भेदः, यानि च ज्ञेयानि प्रत्येकमाभिनिवोधिकादिज्ञानानामिप्यन्ते तानि
OGOSTERAUSRAGASCAR
Jain Education International
For Personal & Private Use Only
Neudainelibrary.org