SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ज्ञानपञ्च कखरूपम्. अवनं अवः 'तुदादिभ्यो न का वित्यधिकारे 'अकतो चे'त्यनेनौणादिकोऽकारप्रत्ययः, अवनं गमनं वेदनमिति पर्यायाः, परि अवः पर्यवः,मनसि मनसो वा पर्ययः मनःपर्यवः सर्वतो मनोद्रव्यपरिच्छेद इत्यर्थः,अथवा मनःपर्यय इति पाठः, तत्रा पर्ययणं पर्ययः, भावेऽल् प्रत्ययः, मनसि मनसो वा पर्ययो मनःपर्ययः, सर्वतस्तत्परिच्छेद इत्यर्थः, स चासौ ज्ञानं च | & मनःपर्ययज्ञानं, अथवा मनःपर्यायज्ञानमिति पाठः, ततः मनांसि-मनोद्रव्याणि पर्येति-सर्वात्मना परिच्छिनत्ति 12 मनःपर्यायं, 'कर्मणोऽणि'ति अण्प्रत्ययः, मनःपर्यायं च तज्ज्ञानं च मनःपर्यायज्ञानं, यद्वा मनसः पर्यायाः मनःपर्यायाः, पर्याया भेदा धर्मा बाह्यवस्त्वालोचनप्रकारा इत्यर्थः, तेषु तेषां वा सम्बन्धि ज्ञानं मनःपर्यायज्ञानं ४, तथा केवलम्- एकमसहायं मत्यादिज्ञाननिरपेक्षत्वात् केवलज्ञानप्रादुर्भावे मत्यादीनामसम्भवात् ,ननु कथम सम्भवो यावता मतिज्ञाना-13 दीनि खखावरणक्षयोपशमेऽपिप्रादुष्ष्यन्ति, ततो निर्मूलखखावरणविलये तानि सुतरां भविष्यन्ति, चारित्रपरिणामवत. उक्तं च-"आवरणदेसविगमे जाइवि जायंति मइसुयाईणि । आवरणसबविगमे कह ताइ न होंति जीवस्स ? ॥१॥" उच्यते, इह यथा जात्यस्य मरकतादिमणेर्मलोपदिग्धस्य यावन्नाद्यापि समूलमलापगमस्तावद्यथा यथा देशतो मलवि-14 लयः तथा तथा देशतोऽभिव्यक्तिरुपजायते, सा च क्वचित्कदाचित् कथञ्चित् भवतीत्यनेकप्रकारा, तथाऽऽत्मनोऽपि सकलकालकलापावलम्बिनिखिलपदार्थपरिच्छेदकरणकपारमार्थिकखरूपस्याप्यावरणमलपटलतिरोहितखरूपस्य यावत् ५ १ आवरणदेशविगमे यान्यपि जायन्ते मतिश्रुतादीनि । सर्वावरणविगमे कथं तानि न भवन्ति जीवस्य ? ॥१॥ a Jain Edu tional For Personal & Private Use Only T ww.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy