________________
श्रीमलयगिरीया नन्दीवृत्तिः
सू.१
ज्ञानपश्चविधमेव प्राप्त, गणधरैरपि तीर्थकृद्भिरुपदिश्यमानं निजप्रज्ञया पञ्चविधमेव प्राप्तं, न तु वक्ष्यमाणनीत्या द्विभेदमेवेति,
कोद्देशः अथवा प्राज्ञात्-तीर्थकरादाप्तं प्राज्ञाप्तं गणधरैरिति गम्यते, अथवा प्राज्ञैः-गणधरैराप्तं प्राज्ञासं, तीर्थकरादित्यनुमीयते, 'तद्यथे'त्युदाहरणोपदर्शनार्थः, आभिनिवोधिकज्ञानं श्रुतज्ञानं अवधिज्ञानं मनःपर्यायज्ञानं केवलज्ञानं, तत्रार्थाभिमुखो नियतः-प्रतिनियतखरूपो बोधो-बोधविशेषोऽभिनिवोधः अभिनिवोध एवाभिनिवोधिकं, अभिनिवो-श धशब्दस्य विनयादिपाठाभ्युपगमाद् 'विनयादिभ्य' इत्यनेन खार्थे इकण्प्रत्ययः. 'अतिवर्त्तन्ते खार्थे प्रत्ययकाः प्रकृतिलिङ्गवचनानीति वचनात् अत्र नपुंसकता, यथा विनय एव वैनयिकमित्यत्र, अथवा अभिनिबुध्यते अनेनास्मादस्मिन वेति अभिनिबोधः-तदावरणकर्मक्षयोपशमः, तेन निवृत्तमाभिनिबोधिकं, आभिनिबोधिकं च तद ज्ञानं च आभिनिवोधिकज्ञानं-इन्द्रियमनोनिमित्तो योग्यदेशावस्थितवस्तुविषयः स्फुटप्रतिभासो बोधविशेष इत्यर्थः १ तथा श्रवणं श्रुतंवाच्यवाचकभावपुरस्सरीकारेण शब्दसंस्पृष्टार्थग्रहणहेतुरुपलब्धिविशेषः,एवमाकारं वस्तु जलधारणाद्यर्थक्रियासमर्थ घटशब्दवाच्यमित्यादिरूपतया प्रधानीकृतत्रिकालसाधारणसमानपरिणामः शब्दार्थपर्यालोचनानुसारी इन्द्रियमनोनिमि
॥६५॥ |त्तोऽवगमविशेष इत्यर्थः श्रुतं च तद् ज्ञानं च श्रुतज्ञानं २,तथा अवशब्दोऽधःशब्दार्थः,अव-अधोऽधो विस्तृतं वस्तु धीयते-परिच्छिद्यतेऽनेनेत्यवधिः,अथवा अवधिर्मर्यादा रूपिष्वेव द्रव्येषु परिच्छेदकतया प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमप्यवधिः यद्वा अवधानम्-आत्मनोऽर्थसाक्षात्करणव्यापारोऽवधिः, अवधिश्वासौ ज्ञानं चावधिज्ञानं ३, तथा परिः-सर्वतो भावे ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org