SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ 149 स्वग्रामगमनं प्रपन्नाः, ततः प्रभूतदिवस भागातिक्रमेणापसृते युद्धे खास्थ्ये च लब्धे यत् किञ्चित्प्रथमतो विक्रयामासतुर्धृतं तद्रव्यमादाय तयोः खग्रामं गच्छतोरपान्तरालेऽस्तं गते सहस्रभानौ सर्वतः प्रसरमभिगृहति तमोविताने परास्क न्दिनः समागत्य वासांसि द्रव्यं बलीवर्दो चापहृतवन्तः, तत एवं तौ महतो दुःखस्य भाजनमजायेताम् । एष दृष्टान्तोऽयमर्थोपनयः - यो विनेयोऽन्यथा प्ररूपयन् अधीयानो वा कथमपि खरपरुषवाक्यैराचार्येण शिक्षितोऽधिक्षेपपुरस्सरं प्रतिवदति-यथा त्वयैवेत्थमहं शिक्षितः, किमिदानीं निहुषे ? इत्यादि, स न केवलमात्मानं संसारे पातयति, किन्त्वा - चार्यमपि खरपरुषप्रत्युच्चारणादिना तीव्र तीव्र तरकोप न लज्वालनात्, भवन्ति च कुविनेया मृदोरपि गुरोः खरपरुषप्रत्युच्चारणादिना कोपप्रकोपकाः, यत उक्तमुत्तराध्ययनेषु - " अणासवा थूलवया कुसीला, मिउंपि चंडं पकरेंति सीसा" इति ॥ अपि च-गुणगुरवो गुरवः, ततस्ते यदि कथमपि दुष्टशिष्यशिक्षापनेन कोपमुपागमत् तथापि तेषां भगवदाज्ञाविलोपतो गुर्व्याशातना ततश्चोपचिताशुभ गुरुकर्मा नियमतो दीर्घतरसंसारभागी, किञ्च - एवं स वर्त्त - मानो मतिमानपि श्रुतरत्वाद्वहिर्भवति, अन्यत्रापि तस्य दुर्लभश्रुतत्वात्, को हि नाम सचेतनो दीर्घतरजीविताभिलाषी सर्पमुखे खहस्तेन पयोबिन्दून् प्रक्षिपतीति, स चैकान्तेनायोग्यः १५ । प्रतिपक्षभावनायामपीदमेव कथानकं परिभावनीयं, केवलमिह घृतघटे भने सति द्वावपि तौ दम्पतीत्वरितं २ कर्परे यथाशक्तिघृतं गृहीतवन्तौ स्तोकमेव विननाश, १ अनाश्रवाः स्थूलवचसः कुशीला मृदुमपि चण्डं प्रकुर्वन्ति शिष्याः । २ अनादरे इत्यध्याहार्यम् । Jain Editernational t For Personal & Private Use Only दृष्टान्तो पनयः. १० १३ www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy