SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ श्रीमलयगिरीया नन्दीवृत्तिः ॥ ६२ ॥ योज्य कन्थासमानौ करोति स भेरीताडन नियुक्त प्रथमपुरुषसमानः, स चैकान्तेनायोग्यः, यस्त्वाचार्यप्रणीतौ सूत्रार्थी यथावदवधारयति स भेरीताडन नियुक्त पाश्चात्यपुरुष इव कल्याणसम्पदे योग्यः १४ ॥ सम्प्रत्याभीरी - दृष्टान्तभावना - कश्चिदाभीरो निजभार्यया सह विक्रयाय घृतं गन्या गृहीत्वा पत्तनमवतीर्णः, चतुष्पथे समागत्य वणिगापणेषु पणायितुं प्रवृत्तो, घटितश्च पणाय संटङ्कः, ततः समारब्धे घृतमापे गच्या अधस्तादवस्थिता आभीरी, घृतं भर्त्रा वारकेण समर्यमाणं प्रतीच्छतीति, ततः कथमप्यर्पणे ग्रहणे वाऽनुपयोगतोऽपान्तराले वारकापरपर्यायो लघुघृतघटो भूमौ निपत्य खण्डशो भग्नः, ततो घृतहानिदूनमनाः पतिरुल्लपितुं खरपरुषवाक्यानि प्रावर्त्तत, यथा हा पापीयसि ! दुःशीले कामविडम्बितमानसा तरुणतरुणिमाभिरमणीयं पुरुषान्तरमवलो कसे न सम्यग् घृतघटमभिगृह्णासि - ततः सा खरपरुषवाक्यश्रवणतः समुद्भूत कोपावेशवशोच्छ लितकम्पकम्पितपीनपयोधरा स्फुरदधर बिम्बोष्ठी दूरोत्पा, टित भ्रूरेखा धनुरवष्टम्भतो नाराच श्रेणिमिव कृष्णकटाक्षसन्त तिमविरतं प्रतिक्षिपन्ती प्रत्युवाच - हा ग्रामेयकाधम ! घृतघटमप्यवगणय्य विदग्धमत्तकामिनीनां मुखारविन्दान्यव लोकसे, न चैतावताऽवतिष्ठसे, ततः खरपरुषवाक्यैर्मामप्यधिक्षिपसि, ततः स एवं प्रत्युक्तोऽतीव ज्वलित कोपानलोऽपि यत् किञ्चिदसम्बद्धं भाषितुं लग्नः साऽप्येवं, ततः समभूत्तयोः केशाकेशि, ततो विसंस्थुलपादादिन्यासतः सकलमपि प्रायो गन्रीघृतं भूमौ पतितं तच किञ्चिच्छोषमुपगतमवशेषं चावलीढं श्रभिः, गन्रीघृतमपि शेषीभूतमपहृतं पश्यतोहरैः, सार्थिका अपि स्वं खं घृतं विक्रीय Jain Education International For Personal & Private Use Only शिष्यपरीक्षायामाभीरीदृष्टान्तः १५ २२ ॥६२॥ २६ www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy