________________
18|मन्यच्छकलं योजितम् , एवमन्यान्यदेशान्तरायातरोगिजनेभ्यो धनलुब्धतया खण्डखण्डप्रदाने सकलापि भेरी शिष्यपुरीकन्थेव खण्डसङ्घातात्मिका कृता, ततोऽपगतो दिव्यप्रभावः, ततस्तदवस्थमेवाशिवं प्रावर्त्तिष्ट, समुत्थितश्च रावोऽशिव-राक्षायाम
रीदृष्टाप्रादुर्भावविषयः पौरजनानां, विज्ञप्तश्च महत्तरैर्जनाईनो-देव ! भूयोऽपि विज़म्भते वासु कृष्णशर्वर्यामन्धकारमिव
न्त.१४ पुरि द्वारवत्यां महदशिवं, ततः प्रातरास्थानमण्डपे सिंहासने समुपविश्याकारितो भेरीताडननियुक्तः पुमान् , दत्त-18 श्चादेशोऽस्मै भेरीताडने, ततस्ताडिता तेन भेरी, साऽपगतदिव्यप्रभावा न भाङ्कारशब्देनास्थानमण्डपमात्रमपि | पूरयति, ततो विस्मितो जनाईनो-यथा किमेषा नास्थानमण्डपमपि भाङ्कारशब्देन पूरयितुं शक्तवती?, ततः खयं | |निभालयामास तां भेरी, दृष्टा च सा महादरिद्रकन्थेव लघुलघुतरशकलसहस्रसङ्घातात्मिका, ततश्चकोप तस्मै जनाईनो-रे दुष्टाधम ! किमिदमकार्षीः ?, ततः स प्राणभयात् सकलमपि यथावस्थितमचीकथत् , ततो महानर्थका-18 रित्वात् स तत्कालमेव निरोपितो विनाशाय, ततो भूयोऽपि जनाईनो जनानुकम्पया पौषधशालामुपगम्याष्टमभक्त-12
विधानतस्तं देवमाराधयामास, ततः प्रत्यक्षीवभूव देवः, कथितवांश्च जनार्दनः प्रयोजनं, ततो भूयोऽपि प्रदत्तवान् अशिवोपशमनीं भेरी, तां च आप्तत्वेन सुनिश्चिताय कृष्णः समर्पयामास । एष दृष्टान्तः, अयमों
पनयः-यथा भेरी तथा प्रवचनावगतौ सूत्रार्थों, यथा भेरीशब्दश्रवणतो रोगापगमः तथा सिद्धान्तस्य प्रभावश्रवणतो जन्तूनां कर्मविनाशः, ततो यः सूत्रार्थावपान्तराले विस्मृत्य विस्मृत्यान्यतः सूत्रमर्थ वा सं-13
din L
emnational
For Personal & Private Use Only
www.jainelibrary.org