________________
P
4
श्रीमलय
गिरीया
क्षायां भे
नन्दीवृत्तिः
॥६१॥
R
ममास्थानमण्डपे वाद्यैषा त्वया भेरी, यत्नतश्चावनीया, ततः सकलखलोकसामन्तादिबलसमन्विता निजप्रासादमा-2 | शिष्यपरीयासीत् , मुत्कलितश्च प्रतीहारेण सर्वोऽपि लोकः, ततो द्वितीयदिवसे मुकुटोपशोभितानेकपार्थिवसहस्रपर्युपास्यमानो है।
रीदृष्टानिजास्थानमण्डपे विशिष्टसिंहासनोपविष्टः शक्र इव देवैः परिवृतो विराजमानस्तां भेरीमताडयत् , भेरीशब्दश्रवण- ता. १४ | समनन्तरमेव च दिनपतिकरनिकरताडितमन्धकारमिव द्वारवतीपुरि सकलमपि रोगजालं विध्वंसमुपागमत् , ततः१५ प्रमुदितः सर्वोऽपि पौरलोकः, आशास्ते च सदैवाधिपतित्वेन जनाईनं; तत एवं व्याधिविकले गच्छति काले कोऽपि दूरदेशान्तरवत्ती धनाढ्यो महारोगाभिभूतो भेरीशब्दमाहात्म्यमाकर्ण्य द्वारवतीमगमत् , स दैवविनियोगाद्भेरीताडनदिवसातिक्रमे प्राप्तः, ततोऽचिन्तयत्-कथमिदानीमहं भविष्यामि ?, यतो भूयो भेरीताडनं षण्मासातिक्रमे, षड्भिश्च मासै(ग्रन्थानं २०००) रेष प्रवर्द्धमानो व्याधिरसूनपि नियमात कवलयिष्यति. ततः किं करोमीति?, ततः इत्थं४| कतिपयदिनानि चिन्ताशोकसागरनिमग्नः कथमपि शेमुषीपोतमासाद्योन्मकं लग्नो-यथा यदि तस्याः शब्दतोऽपि है। रोगोऽपयाति ततः तदेकदेशस्य घर्पित्वा पाने सुतरामपयास्यति, प्रभूतं च मे खं, ततः प्रलोभयामि धनेन । ढाकिकं, येन तच्छकलमेकं मे समर्पयति, ततः प्रलोभितो धनेन ढाकिको, नीचसत्त्वा हि दुष्टदारा इव निरन्तरं ॥६१ ॥ धनादिभिः सन्मान्यमाना अपि व्यभिचरन्ति निजपतेः, ततस्तेन तच्छकलमेकं तस्मै व्यतिरिष्ट, तत्स्थाने च तस्या
IN२०
ESEARCHANAGAR
१ युद्धिः. २ उन्मजनकर्तुं.
Jain Education International
For Personal & Private Use Only
Manjainelibrary.org