SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ SAHARSAKASAMACHAR स प्राह-पुतयुद्धेन, ततः कर्णो पिधाय शल्यितहृदय इव हाशब्दव्याहारपुरस्सरं तं प्रत्येवमवादीत्-गच्छ गच्छा-12 श्वरत्नमपि गृहीत्वा, नाहं नीचयुद्धेन युद्ध्ये इति, तत एतत् श्रुत्वा हर्षवशोज्जृम्भितपुलकमालोशपोभितं वपुरादधानः शिष्यपरी क्षायां मेसविस्मयं सुरसमजन्मा खचेतसि चिन्तयामास-अहो महोत्तमता केशवानाम् , अत एव शतसहस्रसङ्ख्यनमदमरकिरीट-II रीदृष्टाकोटीसङ्घर्षमसृणीकृतपादपीठानां मघवतामप्येते प्रशंसार्हाः, तत एवं चिन्तयित्वा सानन्दमवेक्षमाणो वक्तुं प्रवृत्तो- |न्तः.१४ भोः केशव ! नाहमश्वापहारी, किन्तु त्वद्गुणपरीक्षानिमित्तमेवं कृतवान् , ततः सकलमपि शक्रप्रशंसादिकं पूर्ववृत्तान्त-१५ मचकथत् , ततः खगुणप्रशंसाश्रवणलजितोऽवनतमनाक्कन्धरः कुङ्मलितकरसम्पुटो जनाईनः तमुदन्तपर्यन्ते मुत्कलया-18 मास स्वस्थाने, सुरोऽपि च सकलविश्वासाधारणकेशवगुणदर्शनतो हृष्टमनास्तं प्रत्येवमवादीत्-महापुरुष ! देवदर्शनममोघं । है। मनुजजन्मनामिति प्रवादो जगति प्रसिद्धो मा विफलतामापदिति वद किञ्चिदभीष्टं येन करोमीति, ततः केशवोऽन-1 वीद-वर्तते सम्प्रति द्वारवत्यामशिवं ततस्तत् प्रतिविधानमातिष्ठ येन भूयोऽपि न भवति, ततो गोशीर्षचन्दनमयीम-2 शिवोपशमिनी देवो भेरीमदात्, कल्पं चास्याः कथयामास-यथा षण्मासषण्मासपर्यन्ते निजाऽऽस्थानमण्डपे वाद्यैषाभेरी, शब्दश्चास्याः सर्वतो द्वादशयोजनव्यापी जलभृतमेघध्वनिरिव गम्भीरो विजृम्भिष्यते, यश्च शब्दं श्रोष्यति तस्य प्राक्तनो व्याधिनियमतोऽपयास्यति, भावी च भूयः षण्मासादाक न भविष्यति, ततः एवमुक्त्वा देवः स्वस्थानमगमत् । वासुदेवोऽपि तां भेरी सदैव भेरीताडननियुक्ताय समर्पितवान् , शिक्षां चास्मै ददौ यथा-षण्मासषण्मासपर्यन्ते dain Educ a tional For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy