________________
श्रीमलयगिरीया नन्दीवृत्तिः
॥ ६० ॥
मारेभे ततः पृष्टं केशवेन - किमिति पुरोयायिनः सर्वे पिहितनासिकाः समुत्रासमादधते ?, ततः कोऽपि विदितवेद्यो विज्ञपयामास - देव ! पुरो महापूतिगन्धिः वा मृतो वर्त्तते, तद्गन्धमसहमानः सर्वोऽपि त्रास मगमत्, केशवो महोत्तमतया तद्गन्धादनुत्रस्यन् तेन पथा गन्तुं प्रवृत्तः, अवैक्षिष्ट च तं मृतं श्वानं, परिभावयामास च सकलमपि तस्य रूपं, ततो गुणप्रशंसामकर्त्तुमशक्नुवन् प्रशंसितुमारभते स्म - अहो जाय मरकतम यभाजन विनिवेशितमु कामणिश्रेणिरिव शोभते अस्य वपुषि कालिमकलिते श्वेतदन्तपद्धतिरिति तां च प्रशंसां श्रुत्वा सविस्मयं सुरसद्मजन्मा चिन्तयामास - अहो यथोक्तं मघवता तथैवेति । ततो दूरं गते केशवे तद्रूपमुपसंहृत्य कियत्कालं स्थित्वा गृहमागते केशवे युद्धपरीक्षानिमित्तं मन्दुरागतमेकमश्वरत्वं सकललोकसमक्षमपहृतवान् धावितश्च मार्गतः सर्वोऽप्युद्गीर्णखग कुन्तादिरङ्गरक्षकादिपदातिवर्गः, समुच्छलितश्च महान् कोलाहलो, ज्ञातश्चायं व्यतिकरः केशवेन, प्रधाविताश्च सकोपं दिशोदिशं सर्वेऽपि कुमाराः, मुञ्चन्ति च यथाशक्ति प्रहारान् परं सुरो दिव्यशक्त्या तान् सर्वानपि लीलया विजित्य मन्दं मन्दं गन्तुं प्रवृत्तः, ततः प्राप्तः केशवः, पृष्टश्च तेनाश्वापहारी - भोः किं मदीयमश्वरत्नमपहरसि ?, तेनोक्तं - शक्नोम्यपहर्तु यदि पुनरस्ति ते काऽपि शक्तिस्तहिं मां युद्धे विनिर्जित्य परिगृहाण, ततः केशवः तत्पौरुषरञ्जितमनस्कः सहर्षमेवमवादीत्-भो महापुरुष ! येन युद्धेन ब्रूषे तेन युद्धेऽहं ततः सर्वाण्यपि युद्धानि केशवो नामग्राहं वक्तुं प्रवृत्तः, प्रतिषेधति च सर्वाण्यपि सुरसद्मजन्मा, ततो भूयः केशवो वदति-कथय केन युद्धेन युद्धयेऽहमिति ?, ततः
Jain Education International
For Personal & Private Use Only
|मेरीदृष्टा
न्तः १५
१५
२०
॥ ६० ॥
२५
www.jainelibrary.org