________________
ये चिन्तयन्ति-अनुपकृतोपकारी भगवानाचार्योऽस्माकं, को नामान्यो महान्तमेवं व्याख्याप्रयासमस्मन्निमित्तं विद-12 धाति ?, ततः किमेतेषां वयं प्रत्युपकर्तुं शक्ताः १, तथापि यत् कुर्मः सोऽस्माकं महान् लाभ इति परनिरपेक्षं विन-18 यादिकमादधते, तेषां नावसीदत्याचार्यः अव्यवच्छिन्ना सूत्रार्थप्रवृत्तिः समुच्छलति च सर्वत्र साधुवादः गच्छान्तरे च
तेषां सुलभं श्रुतज्ञानं परलोके च सुगत्यादिलाभ इति १४ ॥ सम्प्रति भेरीदृष्टान्तभावना-इह शक्रादेशेन वैश्रवण- नया2 यक्षनिर्मापितायां काञ्चनमयप्राकारादिपरिकरितायां पुरि द्वारवत्यां त्रिखण्डभरतार्दाधिपत्वमनुभवति केशवे कदाचि- त. १५
दशिवमुपतस्थौ । इतश्च द्वात्रिंशद्विमानशतसहस्रसङ्घले सौधर्मकल्पे सुधर्माभिधसभोपविष्टः सर्वतो दिवौकापर्युपा-1814 स्यमानः शक्राभिधानो मघवा पुरुषगुणविचारणाधिकारे केशव मिहावस्थितमवधिना समधिगम्य सामान्यतः ततप्रशंसामकार्षांत-अहो महानुभावा विष्णवो यद्दोषबहुलेऽपि वस्तुनि स्वभावतो गुणमेव गृह्णन्ति, न दोषलेशमपि, न च नीचयुद्धेन युध्यन्ते इति, इत्थं च मघवता केशवस्तुतिमभिधीयमानामसहमानः कोऽपि दिवौकाः परीक्षार्थ-15 मिहावतीर्य येन पथा भगवदरिष्ठनेमिनमस्करणाय केशवो यास्यति तस्मिन् पथि अपान्तराले क्वचित् प्रदेशे समुत्रासितसकलजनमहादुरभिगन्धसङ्कलमतीव दीप्यमानमहाकालिमकलितं विवृतमुखमुत्पादितश्वेतदन्तपहिं गतप्राणमिव शुनो रूपं विधाय प्रातरवतस्थे, केशवोऽपि चोजयन्तगिरिसमवसृतभगवदरिष्ठनेमिनमस्कृतये तेन पथा गन्तुं प्रववृते, पुरोयायी च पदात्यादिवर्गः समस्तोऽपि तद्न्धसमुत्रासितो वस्त्राञ्चलपिहितनासिकस्त्वरितमितस्ततो गन्तु
ki
Jain Educ
a
tional
For Personal & Private Use Only
STww.jainelibrary.org