SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ श्रीमलय-18|हु सीसगभरोत्ति । न करेंति सुत्तहाणी अन्नत्थवि दुलहं तेसिं ॥ २॥" एष एव गोदृष्टान्तः प्रतिपक्षेऽपि योजनीयः, गोदृष्टान्तः, गिरीया हूँ यथा कश्चित् कौटुम्बिको धर्मश्रद्धया चतुर्यश्चतुर्वेदपारगामिभ्यो गां दत्तवान् , तेऽपि च पूर्ववत्परिपाट्या दोग्धु-18 नन्दीवृत्तिः मारब्धाः, तत्र यस्य प्रथमदिवसे सा गौरागता स चिन्तितवान्-यद्यहमस्याश्चारिं न दास्यामि ततः क्षुधा धातुक्ष॥ ५९॥ यादेषा प्राणानपहास्थति, ततो लोकेषु मे गोहत्याऽवर्णवादो भविष्यति, पुनरपि चास्मभ्यं न कोऽपि गवादिकं दा स्थति, अपिच-यदि मदीयचारिचरणेन पुष्टा सती शेषैरपि ब्राह्मणेधोक्ष्यते ततो मे महाननुग्रहो भविष्यति, अहमपि |च परिपाट्या पुनरप्येनां धोक्ष्यामि, ततोऽवश्यमस्यै दातव्या चारिरिति ददौ चारिं, एवं शेषा अपि ददः, ततः सर्वेऽपि चिरकालं दुग्धाभ्यवहारभागिनो जाताः, लोकेऽपि समुच्छलितः साधुवादो, लभन्ते च प्रभूतमन्यदपि गवादिकं. एवं येऽपि विनेयाश्चिन्तयन्ति-यदि वयमाचार्यस्य न किमपि विनयादिकं विधातारः तत एषोऽवसीदन्नवश्यमपगतासुभविष्यति लोके च कुशिष्या एते इत्यवर्णवादो विजृम्भिष्यते, ततो गच्छान्तरेऽपि न वयमवकाशं लप्स्या-13 महे, अपिच-अस्माकमेष प्रव्रज्याशिक्षावतारोपणादिविधानतो महानुपकारी, सम्प्रति च जगति दुर्लभं श्रुतरत्नमुपयच्छन् वर्त्तते, ततोऽवश्यमेतस्य विनयादिकमस्माभिः कर्तव्यम् , अन्यच-यद्यस्मदीयविनयादिसहायकबलेन प्रातीच्छिकानामप्याचार्यत उपकारः किमस्माभिन लब्धम् ?, द्विगुणतरपुण्यलाभश्चास्माकं भवेत् , प्रातीच्छिका अपि भावना. | शिष्यकभर इति । न कुर्वन्ति सूत्रार्थहानिरन्यत्रापि दुर्लभी तेषाम् ॥२॥ Jain Education La For Personal & Private Use Only IUOJainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy