________________
Jain B
गृहीतं सूत्रमर्थ वाऽतिपरिचितं कृत्वाऽन्यत्पृच्छति स जाहकसमानः, स च योग्यः १३ ॥ सम्प्रति गोष्टान्तभावना क्रियते यथा केनापि कौटुम्बिकेन कस्मिंश्चित् पर्वणि चतुर्भ्यश्चतुर्वेदपारगामिकेभ्यो विप्रेभ्यो गौर्दत्ता, ततः ते परस्परमेवं चिन्तयामासुः - यथेयमेका गौश्चतुर्णामस्माकं ततः कथं कर्त्तव्या ?, तत्रैकेनोतं - परिपाठ्या दुह्यतामिति, तच्च समीचीनं प्रतिभातमिति सर्वैः प्रतिपन्नं, ततो यस्य प्रथमदिवसे गौरागता तेन चिन्तितं यथाऽहमद्यैव धोक्ष्यामि, कल्ये पुनरन्यो घोक्ष्यति, ततः किं निरर्थिकामस्याचारिं वहामि, ततो न किञ्चिदपि तस्यै तेन दत्तं, एवं शेषैरपि ततः सा वपाककुलनिपतितेव तृणसलिलादिविरहिता गतासुरभूत्, ततः समुत्थितः तेषां | धिग्जातीयानामवर्णवादो लोके शेषगोदानादिलाभव्यवच्छेदश्च एवं शिष्या अपि ये चिन्तयन्ति - न खलु केवलाना| मस्माकमाचार्यो व्याख्यानयति, किन्तु प्रातीच्छिकानामपि ततस्त एव विनयादिकं करिष्यन्ति, किमस्माकमिति ?, | प्रातीच्छिका अप्येवं चिन्तयन्ति - निजशिष्याः सर्व करिष्यन्ति, किमस्माकं कियत्कालावस्थायिनामिति १ ततस्ते - पामेवं चिन्तयतामपान्तराल एवाचार्योऽवसीदति, लोके च तेषामवर्णवादो जायते, अन्यत्रापि च गच्छान्तरे दुर्लभौ तेषां सूत्रार्थों, ततस्ते गोप्रतिग्राहकचतुर्द्विजातय इवायोग्याः द्रष्टव्याः उक्तं च - "अन्नो दुजिहि कलं निरत्थयं से वहामि किं चारिं ? । चउचरणगविउ मया अवण्ण हाणी उ बहुआणं ॥ १॥ सीसा पडिच्छिगाणं भरोत्ति तेऽवि
१ अन्यो घोक्ष्यति कल्ये निरर्थिकां अस्या वहामि किं चारिम् । चतुवरणा गौर्मृता अवर्णो हानिस्तु बद्धकानाम् ॥ १॥ शिष्याः प्रतीच्छकानां भर इति तेऽपे च ॥
nternational
For Personal & Private Use Only
गोदृष्टान्तः १४
भावना.
१०
१३
www.jainelibrary.org