SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ श्रीमलयगिरीया नन्दीवृत्तिः ॥५८॥ शिष्योऽपि यो व्याख्यानप्रबन्धावसरेऽकाण्ड एव क्षुद्रपृच्छादिभिः कलहविकथादिभिर्वाऽऽत्मनः परेषां चानुयोगश्रवणविघातमाधत्ते स महिषसमानः, स चैकान्तेनायोग्यः, उक्तं च-"तयमवि न पियइ महिसो न य जूहं पिबति लोलियं उदयं । विग्गहविकहाहि तहा अथकपुच्छाहि य कुसीसो ॥१॥"८॥ मेषोदाहरणभावना-यथा मेषो वदनस्य मेषमसकतनुत्वात् वयं च निभृतात्मा गोष्पदमात्रस्थितमपि जलमकलुषीकुर्वन् पिवति तथा शिष्योऽपि यः पदमात्रमपि जलौकाविनयपुरस्सरमाचार्यचित्तं प्रसादयन् पृच्छति स मेषसमानः, स चैकान्तेन योग्यः ९॥ मसकदृष्टान्तभावना-यः शिष्यो विडाली जाहकदृष्टामसक इव जात्यादिदोषानुद्घट्टयन् गुरोमनसि व्यथामुत्पादयति स मसकसमानः, स चायोग्यः १० ॥ जलौकादृष्टान्तभावना-यथा जलौकाः शरीरमदुन्वती रुधिरमाकर्षति तथा शिष्योऽपि यो गुरुमदुन्वन् श्रुतज्ञानं पिबति स जलौ-नयाश्च.१३ कासमानः, उक्तं च-"जलुगा व अमितो पियइ सुसीसोऽवि सुयनाणं।" ११॥ बिडालीदृष्टान्त भावना-यथा बिडाली भाजनसंस्थं क्षीरं भूमौ विनिपात्य पिबति,तथादुष्टखभावत्वाद्, एवं शिष्योऽपि यो विनयकरणादिहीनतया न साक्षादू गुरुसमीपे गत्वा शृणोति, किन्तु व्याख्यानादुत्थितेभ्यः केभ्यश्चित्, स बिडालीसमानः, स चायोग्यः १२ ॥ तथा जाहकः-तिर्यविशेषः, तत्र दृष्टान्तभावना-पथा जाहकः स्तोकं २ क्षीरं पीत्वा पार्थाणि लेढि तथा शिष्योऽपि यः पूर्व ॥५॥ २० १ खयमपि न पिबति महिषो न च यूथं पिबति लोडितमुदकम् । विग्रहविकवादिभिस्तथाऽकाण्डपृच्छादिभिश्च कुशिष्यः ॥१॥ २ जलौका इव अदुन्वन् पिबति | सुशिष्योऽपि श्रुतज्ञानम् ॥ For Personal & Private Use Only in Educon International inbrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy