________________
आह च आवश्यकचूर्णिकृत् “वक्खंणाइसु दोसे हिययंमि ठवेइ मुयइ गुणजालं । सो सीसो उ अजोग्गो भणिओ परिपूणगसमाणो ॥१॥" आह-सर्वज्ञमतेऽपि दोषाः सम्भवन्तीत्यश्रद्धेयमेतत् , सत्यम्, उक्तमत्र भाष्यकृता-"संवएणुप्पामण्णा दोसा हु न संति जिणमए केऽवि । जं अणुवउत्तवकहणं अपत्तमासज व हवंति ॥१॥"६॥ सम्प्रति हंसदृष्टान्तभावना, यथा हंसः क्षीरमुदकमिश्रितमप्युदकमपहाय क्षीरमापिबति तथा शिष्योऽपि यो गुरोरनुपयोग
हंसदृष्टान्त
उपनयश्च.७ सम्भवान् दोषानवधूय गुणानेव केवलानादत्ते स हंससमानः, स चैकान्तेन योग्यः । ननु हंसः क्षीरमुदकमिश्रितमपि । कथं विभक्तीकरोति ?, येन क्षीरमेव केवलमापिबति न तूदकमिति, उच्यते, तजिह्वाया अम्लत्वेन क्षीरस्य कूर्चिकीभूय पृथग्भवनात् , उक्तं च-"अम्बत्तणेण जीहाएँ कूचिया होइ खीरमुदयंमि । हंसो मोत्तूण जलं आवियइ पय तह सुसीसो ॥१॥ मोत्ण दढं दोसे गुरुणोऽणुवउत्तभासियाईपि । गिण्हइ गुणे उ जो सो जोग्गो समयत्थसारस्स ॥२॥"७॥ इदानीं महिषदृष्टान्तभावना-यथा महिषो निपातस्थानमवाप्तः सन् उदकमध्ये प्रविश्य तदुदकं मुहुर्मुहुः शृङ्गाभ्यां ताडयन्नवगाहमानश्च सकलमपि कलुषीकरोति, ततो न खयं पातुं शक्नोति नापि यूथं, तद्वत्
महिषह
ष्टान्त उ१ व्याख्यानादिषु दोषान् हृदये स्थापयति मुञ्चति गुणजालम् । स शिष्यस्तु अयोग्यो भणितः परिपूर्ण कसमानः॥१॥२ सर्वज्ञप्रामाण्यात दोषा नैव सन्ति जिनमते |
पनयश्च.८ केऽपि । यदनुपयुक्तकथनं अपात्रमासाद्य वा भवन्ति ॥१॥३ अम्लत्वेन जिह्वायाः कूर्चिका भवति क्षीरमुदके । हंसो मुक्त्वा जलमापिबति पयः तथा सुशिष्यः ॥1॥ ४ मुक्त्वा दृढं दोषान् गुरोरनुपयुक्तभाषितादीनपि । गृह्णाति गुणान् तु यः स योग्यः समयार्थसारस्य ॥२॥
dan Edd
e
mnational
For Personal & Private Use Only
RI www.jainelibrary.org